SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ विशेषा० दू ॥४९॥ Sekcients SKTOTTAREETTEN इति तेषामपि नमस्कारः। अथ सामान्यन शेषाचार्यो-पाध्यायनमस्कृतौ हेतुमाह- 'जहेत्यादि' यथा मूलश्रुतस्य द्वादशाङ्गीसंबन्धिनो ऽर्थस्य मूत्रस्य च प्रभवा हेतवो यथासंख्यं जिना गणधराश्च पूज्याः; तथा यैरिदं तयोर्द्वादशाङ्गीसंबन्धिसूत्रार्थयोरुभयमियती कालकलां यावदानीतम् , तेषां शेषाचार्यरूपगणधरो-पाध्यायानां वंशः कथं न पूज्यः ?- अपितु पूज्य एवेति । किञ्च, 'जिणेत्यादि । अथ विशेषतो गणधराणाम् , उपाध्यायानांच नमस्कृतौ हेतुमाह-'सीसेत्यादि' यथा गणाधिपा गौतमादयः, A गणधरास्तु जम्बूस्वाम्यादयः शेषाचार्यास्तदर्थस्य द्वादशाङ्गार्थस्य वक्तारो व्याख्यातारः सन्तः शिष्यवर्गस्य हिताः, तद्धितत्वाच्च नमस्क्रियन्ते तथा तत्सूत्रस्य वक्तारः पाठयितारः सन्त उपाध्याया अपि शिष्यहिता एव । वंशश्च तेषामेवोपाध्यायानां परम्परकः पारम्पर्यव्यवस्थितः समूहः, अतः शिष्यहेतुत्वात् सोऽपि नमस्क्रियते । शेष सुबोधमिति ॥ १०६३ ॥१०६४ ॥१०६५-१०६८॥ नन्वेषां तीर्थकर-गणधराणां नमस्कारं कृत्वा ततः किं कर्तव्यम् ?, इत्याह 'ते वंदिऊण सिरसा अत्थपुहत्तस्स तेहिं कहियस्स । सुयनाणस्स भगवओ निज्जुत्तिं कित्तयिस्सामि ॥१०६९॥ __ तान् पूर्वोक्तांस्तीर्थकरादीन् शिरसा, उपलक्षणत्वाद् मनः-कायाभ्यां च वन्दित्वा तैरेव कथितस्य प्ररूपितस्य, अर्थात् कथश्चिद्भिन्नत्वात् सूत्रं पृथगुच्यते, प्राकृतत्वाच्च पृथगेव च पृथक्त्वम् , अर्थस्तु सूत्राभिधेयः प्रतीत एव, अर्थश्च पृथक्त्वं चार्थपृथक्त्वमिति समाहारद्वन्द्वः, तस्याऽर्थपृथक्त्वस्य सूत्रार्थोभयरूपस्य श्रुतज्ञानस्य भगवतः, सूत्रार्थयोः परस्परं निर्योजन संबन्धन नियुक्तिस्तां कीर्तयिष्यामि ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ १०६९ ॥ विस्तरार्थं तु भाष्यकार: पाह ते तिर्थयराईएऽभिवन्दिउं सुकयमङ्गलायारो । निविग्घमओ वोच्छं पगयमुवग्घायनिज्जुत्तिं ॥१०७०॥ पाठसिद्धा ॥१०७०॥ अंत्यो सुयस्स विसओ तत्तो भिन्नं सुयं पुहत्तं ति। उभयमिदं सुयनाणं नियोजणं तेसिं निज्जुत्ती ॥१०७१॥ प , तान् वन्दित्वा शिरसाऽर्थ-पृथक्त्वस्य तैः कथितस्य । श्रुतज्ञानस्य भगवतो नियुक्ति कीर्तयिष्यामि ॥ १०६९ ॥ २ क. ग. 'नियोज' । ३ तांस्तीर्थकरादीनभिवन्ध सुकृतमङ्गलाचारः । निर्विनमतो वक्ष्ये प्रकृतामुपोद्धातनियुक्तिम् ॥ १०७० ॥ ४ क. ग. 'त्वगरा' - ५ अर्थः श्रुतस्य विषषस्ततो भिन्नं श्रुतं पृथक्त्वमिति । उभयमिदं श्रुतज्ञानं नियोजनं तयोनियुक्तिः ॥ १०७१ ॥ ४९शा ERALAGEकएका Jan Education Internatio For Personal and Private Use Only RDEdwww.jaineltrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy