________________
विशेषा०
॥ ४९० ॥
Jain Educationa Internation
अनुत्तरज्ञान- दर्शनादिगुणानां गणं धारयन्तीति गणधरास्तानेकादशापि गौतमादीन् वन्दे । कथंभूतान् ?, इत्याह- प्रकर्षेण, मधानाः, आदौ वा वाचकाः प्रवाचकाः प्रवचनस्याऽऽगमस्य । एवं तावद् मूलगणधरवन्दनं कृतम् । तथा, सर्व निरवशेषं, गणधरा जम्बू-प्रभव-शय्यं भवादयः शेषा आचार्यास्तेषां परम्परया प्रवाहो वंशस्तम् । तथा, वाचका उपाध्यायास्तेषां वंशस्तम् । तथा, प्रवचनं चागमं वन्दे ।। इति नियुक्तिगाथार्थः ॥ १०६२ ।।
अथ भाष्यम् –
जो जहत्थवत्ता सुयवत्तारो तहा गणहरा वि । पुजा पवायगा पवयणस्स ते बारसंगस्स ॥ १०६३ || जहवा रायाणत्तं रायनिउत्तपणओ सुहं लहइ । तह जिणवरिंदविहियं गणहरपणओ सुहं लहइ ॥ १०६४ || जह मूलसुयपभवा पुज्जा जिण- गणहरा तहा जेहिं । तदुभयमाणीयमिदं तेसिं वंसो किह न पुज्जो १ ॥ १०६५ ॥ जिणगणहरुग्गयस्स वि सुयस्स को गहणधरणदाणाई । कुणमाणो जइ गणहरवायगवंसो न होज्जाहि ? ॥ १०६६ ॥ सीसहिया वत्तारो गणाहिवा गणहरा तयत्थस्स । सुत्तस्सोवज्झाया वंसो तेसिं परंपरओ ॥ १०६७ ॥ पगयं पहाणवयणं पत्रयणं बारसंग मिह तस्म । जइ वत्तारो पुज्जा तं पि विसेसेण तो पुज्जं ॥ १०६८ ॥
षडपि सुगमार्थाः, नवरं यथाऽर्थस्य वक्ता तीर्थकरः पूज्यः, तथा गणधरा अपि गौतमादयः पूज्याः, यतस्तेऽपि प्रवचनस्य द्वादशाङ्गस्य सूत्रतः प्रवाचका एव; इति तेषामपि नमस्कारः कृतः । अथवा, यथा राज्ञा पृथवीपतिनाऽऽज्ञांतं तदाज्ञापितमथादिकं राजनियुक्तानाममात्यादीनां प्रणतः सुखेनैव लभते, तथा प्रणतिप्रसन्नैर्जिन वरेन्द्रैर्विहितं विस्तीर्ण मङ्गलादिकं गणधरणतः सुखेनैव लभते,
१ पूज्यो यथाऽर्थवक्ता श्रुतवतारस्तथा गणधरा अपि । पूज्याः प्रवाचकाः प्रवचनस्य ते द्वादशाङ्गस्य ॥ १०६३ ॥ यथा वा राज्ञाज्ञातं राजनियुक्तप्रणतः सुखं लभते । तथा जिनवरेन्द्रविहितं गणधरप्रणतः सुखं लभते ॥ १०६४ ॥ यथा मूलश्रुतप्रभवाः पूज्या जिन-गणधरास्तथा यैः । तदुभयमानीतमिदं तेषां वंशः कथं न पूज्यः ? ॥ १०६५ ॥ जन-गणधरोद्गतस्यापि श्रुतस्य को ग्रहण धरण- दानादि । कुर्वन् यदि गणधर वाचकवंशो न भवेत् ? ॥ १०६६ ॥ शिष्यहिता वक्तारो गणाधिपा गणधरास्तदर्थस्य । सूत्रस्योपाध्याया वंशस्तेषां परम्परकः ॥ १०६७ ॥
प्रकृतं प्रधानवचनं प्रवचनं द्वादशाङ्गमिह तस्य । यदि वक्तारः पूज्यास्तदपि विशेषेण ततः पूज्यम् ॥ १०६८ ॥ २क. ग. 'तं दापि
For Personal and Private Use Only
बृहद्वृचिः।
॥४९०॥
www.jainelibrary.org