SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ विशेषा० सहदत्तिः। ॥४८९॥ विशेषतः शिवपदं स्खयमियति गच्छतीति वीरः। अथवा, 'दृ विदारणे' विदारयति कर्मरिपुसंघट्टमिति वीरः । अनन्यानुभूतमहातप:| श्रिया वा विराजत इति वीरः । अन्तरङ्गमोहमहाबलनिर्दलनार्थमनन्तं तपोवीर्य व्यापारयतीति वा वीरः । उक्तं च "विदारयति यत्कर्म तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद् वीर इति स्मृतः ॥ १॥" महांश्चासौ वीरश्चेति महावीरस्तम् । तथा, अमर-नराणां राजानः शक्र-चक्रवर्त्यादयस्तैरपि महितः पूजितः, किं पुनः शेषजनैः ?, अतस्तम् । तथा, अस्य वर्तमानतीर्थस्य प्रवर्तकस्तीर्थकरस्तम् । मङ्गल्यम्, महोपकारकं च वन्दे ।। इति नियुक्तिगाथार्थः॥ १०५७ ॥ अथ भाष्यम् भागो चिंता सत्ती स महाभागो मैहप्पभावो त्ति । स महामुणी महंतं जं मुणइ मुणिप्पहाणो वा॥१०५८॥ तिहयणविक्खायजसो महाजसो नामओ महावीरो । विक्कंतो व कसायाइसत्तुसेनप्पराजयओ ॥१०५९ ॥ ईरेइ विसेसेणं खिवेइ कम्माई गमयइ सिवं वा । गच्छइ य, तेण वीरो स महं वीरो महावीरो॥१०६०॥ अमर-नररायमहियं ति पूइयं तेहिं, किमु य सेसेहिं ? । संपइतित्थस्स पहुं मंगल्लं महोवगारिं च ॥१०६१॥ चतस्रोऽप्युक्तार्था एवेति ॥ १०५८ ॥ १०५९ ॥१०६० ॥१०६१ ॥ तदेवमर्थप्रणेतुर्मङ्गलार्थ वन्दनं कृतम् , अथ सूत्रकादीनामपि तदाहऐक्कारस वि गणहरे पवायए पवयणस्स वंदामि । सव्वं गणहरवंसं वायगवंसं पवयणं च ॥ १०६२ ॥ PPPPS , भागोऽचिन्त्या शक्तिः स महाभागो महाप्रभाव इति । स महामुनिमहान्तं यं जानाति मुनिप्रधानं वा ॥ १०५८ ।। त्रिभुवनविण्यातयशा महायशा नामतो महावीरः । विक्रान्तो वा कपायादिशवसेनापराजयतः ॥ १०५९॥ ईरयति विशेषण क्षेपयति कर्माणि गमयति शिवं वा । गच्छति च, तेन वीरः स महान् वीरो महावीरः ॥१०६०॥ अमर-नरराजमहितमिति पूजितं तैः, किमु च शेषैः ? । संप्रतितीर्थस्य प्रभु मजल्यं महोपकारिणमिति ॥ १०६१॥ २ क. ग. 'महाप्प'। ३ क. ग. 'नपरा'। ४ क. ग. 'मइ य सि'। ५ एकादशापि गणधरान् प्रवाचकान् प्रवचनस्य वन्दे । सर्वं गणधरवंश वाचकवंशं प्रवचनं च ।। १०६२॥ ॥४८९॥ मुसहर
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy