SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ BOS विशेषा० बृहद्वत्तिः । ॥४८८॥ D अथ "वंदे' इत्यस्यार्थ, वक्ष्यमाणमहावीरनमस्कारप्रस्तावनां चाह वंदेऽभिवादयेऽभित्थुणामि वा ते तिलोगमंगल्छे । सामण्णवंदणमिणं तित्थयरत्ताविसिट्ठाणं ॥ १०५४ ॥ पत्तेयवंदणमिओ संपइ तित्थाहिवस्स वीरस्स । सुयनाणत्थप्पभवो स विसेसेणोवगारि त्ति ॥ १.५५ ॥ गाथाद्वयमपि प्रसिद्धार्थम् , नवरं तीर्थकरत्वेनाऽविशिष्टानामभिन्नानामृषभादीनां समस्ततीर्थकराणामिदं वन्दनमुक्तम् । 'सुयनाणथप्पभवो त्ति' समस्तस्यापि श्रुतज्ञानस्य योऽर्थस्तस्य प्रभवो हेतुरिति ।। १०५४ ॥ १०५५॥ प्रकारान्तरेणापि महावीरनमस्कारस्य प्रस्तावनामाहतुल्लगुणाणं परिसं नमिऊण जह ससामियं नमइ । तह तुल्लगुणे वि जिणे नमिउं तित्थाहिवं नमइ ॥१०५६॥ अथवा, यथा तुल्यगुणानां राजादीनां परिषदं समाजं दृष्ट्वा कोऽपि सामान्येन सर्वेभ्यो नमस्कृत्य पुनर्विशेषतो निकटीभूय स्वस्वामिनं प्रणमति, तथा तुल्यगुणांस्तीर्थकरानपि सामान्येन सर्वान् नमस्कृत्य सांप्रतं तीर्थाधिपं महावीरं प्रणमति । इत्येकत्रिंशद्दाथार्थः ॥ १०५६ ॥ कथम् ?, इत्याह वंदामि महाभागं महामुणिं महायसं महावीरं । अमर-नररायमहियं तित्थयरमिमस्स तित्थस्स ॥१०५७॥ महावीरं वन्द इति योगः। भागः किलाऽचिन्त्या शक्तिः, महान् भागोऽस्येति महाभागो महाप्रभाव इत्यर्थः, तं तथाभूतम् । तथा, मुणति, मनुते, मन्यते वा जगतस्विकालावस्थामिति मुनिः, सर्वज्ञत्वाद् महांश्चासौ मुनिश्च महामुनिः । अथवा, मुनयः साधवस्तेषां महान् प्रधानो महामुनिस्तम् । त्रिभुवनव्यापित्वाद् महद् यशोऽस्येति महायशास्तम् । महावीर इत्यभिधानम् । अथवा, 'शूर वीर विक्रान्तौ' कषायादिमहाशत्रुसैन्यजयाद् महाविक्रान्तो महावीरः। यदिवा, 'ईर गतौ' कियक्षिपितकर्मसाध्वपेक्षया विशेषत ईरयति क्षिपति तिरस्करोत्यशेषाण्यपि कर्माणीति वीरः । अथवा, विशेषत ईरयति- शिवपदं प्रति भव्यजन्तून् गमयंतीति वीरः । यदिवा, गाथा १०२५। २ वन्देऽभिवादयेऽभिस्तौमि वा तांत्रिलोकमङ्गल्यान् । सामान्यवन्दनामिदं तीर्थकरत्वाविशिष्टानाम् ॥ १०५४ ॥ प्रत्येकवन्दनमितः संप्रति तीर्थाधिपस्य वीरस्य । श्रुतज्ञानार्थप्रभवः स विशेषेणोपकारीति ॥ १०५५ ॥ ३ तुल्यगुणानां परिषदं नत्वा यथा स्वस्वामिनं नमति । तथा तुल्यगुणानपि जिनान् नत्वा तीर्थाधिपं नमति ॥ १०५६ ॥ ४ वन्दे महाभागं महामुनि महायशसं महावीरम् । अमर-नरराजमहितं तीर्थकरमस्य तीर्थस्य ॥ १०५७ ॥ ॥४८८॥ PROSTATE Jan Education For Personal Private Use Only I www.jaineltrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy