________________
बृहदत्तिः ।
विशेषा० ॥४८॥
समस्या
वे सति सर्वबाधाविनिर्मुक्तत्वात् परमसुखिनः सुगतयः सिद्धाः, तेषां सुगतीनां सिद्धानां तैर्गम्यमानत्वाद् गतिः सिद्धिलक्षणा, न तु नरकगत्यादिका सुगतिगतिः, तां गताः प्राप्ताः, सुगतिगतिगतास्तानिति ॥१०५१॥
"सिद्धिपहपएसए' इत्येतद् व्याख्यानयनाह
से च्चिय सुगईण गई सिद्धी सिद्धाण जो पहो तीसे । तद्देसया पहाणा सिद्धिपहपएसया तो ते ॥१०५२॥
सिद्धानां संवन्धिनी येयमनन्तरगाथायां सुगतिगतिरुक्ता, सैवेह सिद्धिरभिप्रेता, तस्याः सिद्धेयः पन्था वक्ष्यमाणज्ञान-दर्शनचारित्रलक्षणः स सिद्धिपथः, तस्य सिद्धिपथस्य यतः प्रधानाः प्रकृष्टा आदौ वा देशका प्रदेशकास्ततः सिद्धिपथप्रदेशकास्ते, अतस्तानिति ॥ १०५२ ॥
सिद्धिपथप्रदेशका इत्युक्तम् , तत्र कोऽयं सिद्धिपथः १, इत्याशङ्कय भाष्यकार एव तमाह
'सिद्धिपहो उण सम्मत्त-नाण-चरणाई बक्खमाणाई।भवहेउविवक्खाओ निदाणपडिकूलकिरिय व्व ॥१०५३॥
सिद्धेस्तु पन्था इहैव वक्ष्यमाणानि सम्यक्त्व-श्रुत-चारित्रसामायिकलक्षणानि सम्यक्त्व-ज्ञान-चारित्राणि । कुतः, इत्याह'भवेत्यादि । इदमुक्तं भवति-मुक्तार्गो मुक्तेः साधकानि सम्यक्त्व ज्ञान-चारित्राणीति प्रतिज्ञा, भवस्य संसारस्य या मिथ्यात्वाज्ञाना-विरतिलक्षणो हेतुस्तद्विपक्षत्वात् तद्विघातकत्वात् सम्यक्त्वादीनामिति हेतुः। इह यो यद्धेतुविपक्षस्वभावः स तद्विपक्षस्य साधको दृष्टः, यथा रोगनिदानस्याऽजीर्णादेर्लङ्घनादिका प्रतिपक्षभूता क्रिया नीरोगत्वस्य साधनी, भवहेतुविपक्षभूताश्च सम्यक्त्वादयः, ततो भवविपक्षस्य मोक्षस्य साधका इति । अथवा, अन्यथा प्रयोगः क्रियते- इष्टार्थप्रसाधकमेव सम्यक्त्वादित्रयमिति प्रतिज्ञा, इष्टार्थविघातकहेतुविपक्षत्वादिति हेतुः, इह यो यस्य विघातहेतूनां विपक्षस्वभावः स तस्य साधको दृष्टः, यथा नीरोगताविघातकस्याऽजीर्णादेः प्रतिपक्षभूता लखनादिक्रिया नीरोगतासाधनी, इष्टार्थस्य मोक्षस्य विघातकानां मिथ्यात्वादीनां विपक्षभूताश्च सम्यक्त्वादयः, ततो मोक्षलक्षणस्येष्टार्थस्य साधका इति ॥ १०५३ ॥
का
॥४८७॥
१ गाथा १०२५। २ सैव सुगतीनां गतिः सिद्धिः सिद्धानां यः पथस्तस्याः । तदेशकाः प्रधानं सिद्धिपधप्रदेशकास्ततस्तान् ॥ १०५२ ॥ । सिद्धिपधः पुनः सम्यक्त्व-ज्ञान-चरणानि वक्ष्यमाणानि । भवहेतुविपक्षाद् निदानप्रतिफूलक्रियेच ॥ १०५३ ॥