________________
BSPICIReless
बृहद्वत्तिः ।
विशेषा० ॥४८६॥
इत्यादिग्रन्थाभिहितं निरुपमं तेषां रूपम् । तथा, श्रीरनन्यसाधारणा तपस्तेजोविभूतिरमीपाम् । तथा, जगत्त्रयातिक्रान्तानुपमगुणग्रामाविर्भावितशरदिन्दुकुन्दविशदं भुवनत्रयव्यापकं यशस्तेषाम् । तथा, समस्तचारित्रमोहनीयक्षयप्रभवत्वादुत्तमक्षमा-मार्दवादिरूपः सर्वोत्कृष्टो धर्मस्तेषाम् । तथा, प्रयतनं प्रयत्नः सर्वेष्वपि हितानुष्ठानेष्वप्रमादः, सोऽपि चारित्रावरणव्यपगमादनुत्तर एव तेषामिति॥१०४८॥
'अणुत्तरपरिकमे' इत्येतद् विवृण्वन्नाह
विरियं परिक्कमो किर परेऽरयो वा जओ तदक्कमणं । सोऽणुत्तरो वरो सिं अणुत्तरपराकमा तो ते ॥१०४९॥
पराक्रमः किल वीर्यमभिधीयते । स च भगवतां क्षीणनिःशेषवीर्यान्तरायत्वात् सर्वाऽमर-नरेन्द्रनिवहपराक्रमादनन्तगुणत्वादनुत्तर एव । अनुत्तरः पराक्रमो वीर्य येषां तेऽनुत्तरपराक्रमाः । अथवा, परेऽरयो भावशत्रवः कपायादयः, 'जउ त्ति' जयः पराभवोऽभिभवनं तदाक्रमणं परेषामाक्रमणमाक्रमः पराक्रमः सोऽनुत्तरो वरोऽमीषाम् , ततोऽनुत्तरपराक्रमास्ते, अतस्तानिति ॥ १०४९ ॥
'अमितज्ञानिनः' इति व्याख्यानयनाह
अमियमणतं नाणं तं तेसिं अमियणाणिणो तो ते । तं जेण नेयमाणं तं चाणंतं जओ नेयं ॥ १०५० ॥
अनन्तत्वाद् मातुमशक्यममितं केवलज्ञानलक्षणं ज्ञानं तत्तेषां विद्यते, ततोऽमितज्ञानिनस्ते । कथं पुनः केवलज्ञानस्याऽऽन| न्त्यमित्याह- तत्केवलज्ञानं येन कारणेन ज्ञेयमानं वर्तते, ज्ञानस्य ज्ञेयानुवर्तित्वात् , तच ज्ञेयं सर्वमपि यतोऽनन्तम् , अतः केवलज्ञानस्याऽऽनन्त्यमिति ॥ १०५० ॥
'तिण्णे सुगइगइगए' इत्येतद् व्याख्यानयति
"तिण्णा समइक्ता भवण्णवं, कं गई गया तरिउं?। सुगईण गई पत्ता सुगइगइगया तओ होति॥१०५१॥ तरन्ति स्म तीर्णा भवार्णवं समतिक्रान्ताः । आह- भवोदाधि तीर्त्वा ततस्ते कां गतिं गताः ?, इत्याह- 'सुगईणेत्यादि' ज्ञानि
स58 SCHACHRADDRESS
१ गाथा १०२५। २ वीर्य पराक्रमः किल परेश्यो वा जयस्तदाक्रमणम् । सोऽनुत्तरो वर एषामनुत्तरपराक्रमास्ततस्तान् ॥१०४९॥
३ अमितमनन्तं ज्ञानं तत् तेषाममितज्ञानास्ततस्तान् । तद् येन ज्ञेयमानं तच्चाऽनन्तं यतो ज्ञेयम् ॥ १०५० ॥ ४ तीर्णाः समतिकान्ता भवार्णवं, कां गतिं गतास्तीर्वा । सुगतीनां गति प्राप्ताः सुगतिगतिगतास्ततो भवन्ति ॥ १०५१।।
॥४८६॥
Jan Education Intemat
For Dev
enty