SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥४०७|| arorala परिजितमित्यर्थः, एवं तदप्यावश्यकं, अतः स्वनामसममुच्यते । यद् वाचनाचार्याभिहितैरुदात्ता-ऽनुदात्त-स्वरितलक्षणैर्घोषैः सदृशमेव गृहीतं तद् घोषसमम् । न हीनाक्षरमहीनाक्षरम् , नाप्यधिकाक्षरम् । 'वोच्चत्थेत्यादि' यथा प्रात्ताभीरीप्रोतरत्नमाला विपर्ययन्यस्तरननिचया भवति, एवं यद् व्यत्यासितवर्णविन्यासं विषयोपन्यस्तवर्णसंतानमित्यर्थः, तद् व्याविद्धाक्षरं, न तथाऽव्याविद्धाक्षरम् । इदं वर्णमात्रापेक्षं विवक्ष्यते, न तु पद-चाक्यापेक्षम् । पद-वाक्यविपर्यस्तस्य वक्ष्यमाणाऽमिलितविषयत्वादिति । उपलशकलाकुलभूतलेहलमिव यद् न स्खलति तदस्खलितम् । विसदृशानेकधान्यमेलकवद् यद् न मिलति तदमिलितम् । अथवा, विपर्यस्तपद-वाक्यग्रन्थं मिलितम् , नैवं यत् , तदमिलितम् । 'अमिलियपय-बक्कविच्छेयं ति' अथवेत्यत्रापि तृतीयव्याख्यान्तरसूचकः संबध्यते, अमिलितोऽसंमृक्तः पद-वाक्यविच्छेदो यत्र, तद् वामिलितमुच्यते । अव्यत्यानेडितं व्याख्यातुमाह- 'न य विविहेत्यादि विविधानि नानाप्रकाराण्यनेकानि शास्त्राणि तेषां पद-वाक्यावयवरूपा | बहवः पल्लवास्तैर्विमिदं व्यत्यानेडितम् , अथवा, अस्थानच्छिन्नग्रथितं व्यत्यानेडितम् , यथा- “प्राप्तराज्यस्य रामस्य राक्षसा निधनं | गताः" कोलिकपायसवद् भेरीकन्थावद् वा; यथोक्तरूपं यद् न भवति तदव्यत्यानेडितम् । परिपूर्ण द्विधा-सूत्रतः, अर्थतश्च । तत्र च्छन्दसा च्छन्दः समाश्रित्य मात्रादिनियतमानं सूत्रतः, परिपूर्णम् , यत्तु नाऽऽकासादिसदोषं तदर्थतः परिपूर्णम्- यत् क्रियाध्याहारं नापेक्षते, अव्यापकम् , अखतन्त्रं च न भवति तदर्थतः परिपूर्णमिति भावः ।। परिपूर्णघोषमिति व्याख्यातुमाह- 'पुण्णमित्यादि' उदात्तादिघोषैर्यत् परिपूर्ण परावर्तनादिकाले उच्चारयति तत् परिपूर्णघोपम् । इह च शिक्षाकालेऽध्यापकनिगदितोदात्तादियोपैः समं शिक्षमाणस्य घोषसमम् , शेषकाले तु परावर्तनादि कुर्वन् यदुदात्तादिघोषैः परिपूर्णमुच्चारयति, तत् परिपूर्णघोषम् , इत्यनयोर्विशेषः । कण्ठौ ठविप्रमुक्तं स्पष्टं, न तु बाल-मूकभाषितवदव्यक्तम् । गुरोः सकाशाद् वाचनयोपयातमायातम् , न पुस्तकादेव चोरितम्- स्वतन्त्रेणैवाऽधीतम् । वाशब्दात् कर्णाघाटकेन वा गृहीतमिति ॥ ८५१-८५७ ॥ अत्र प्रेरकः पाहओंगमओऽणुवउत्तो बत्ता दव्वं ति सिद्धमावासं। किं सिक्खियाइसुयगुणविसेसणे फलमिहब्भहियं ॥८५८॥ १ प.छ.'प्रान्ताभी' । २ आगमतोऽनुपयुक्तो वक्ता द्रव्यामिति सिद्धमावश्यकम् । किं शिक्षितादिश्रुतगुणविशेषणे फलमिहाभ्यधिकम् ॥ ८५८ ॥ CER
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy