________________
HINDIK नरम
विशेषा० ॥४०८॥
बृहद्वृत्तिः ।
कहा
नवागमतोऽनुपयुक्तो वक्ता द्रव्यावश्यकम् , इत्येतावतैव सिद्धमागमतो द्रव्यावश्यकम् , 'किं शिक्षितम् , स्थितम् , जितम्' इत्याद्यावश्यकश्रुतगुणविशेषणैरिहाभ्यधिकं फलम् ? इति ।। ८५८ ।।
अत्रोत्तरमाहजह सव्वदोसरहियं पि निगदओ सुत्तमणुवउत्तस्स । दव्वसुयं, दव्वावासयं च तह सव्वकिरियाओ ॥८५९॥
उवउत्तरस उक्खलियाइयं पि सुद्धस्स भावओ सुत्तं । साहइ तह किरियाओ सव्वाओ निजरफलाओ ॥८६०॥
इह शिक्षितादिविशेषणकलापं कुर्वन्नाचार्य इति साधयति- एतत् कथयति, इति द्वितीयगाथायां क्रिया। किं साधयति ?, इत्याह- यथा शिक्षितादिगुणोपेतत्वात् सर्वदोषरहितमपि मूत्रमनुपयुक्तस्य निगदतो द्रव्यश्रुतम् , वक्ष्यमाणद्रव्यावश्यकं चोक्तस्वरूपं भवति, तथा, प्रत्युपेक्षण-प्रमार्जने-यादि क्रिया अपि सो अनुपयुक्तस्य कुर्वतोऽन्तामणिधानशून्यत्वाद् द्रव्यक्रियास्तत्फलविकला भवन्ति, 'तथा-तथैव सामर्थ्यादिदं लभ्यते, उपयुक्तस्य त्वन्तःप्रणिधानयुक्तस्य करणाऽवैफल्यादिकारणात् कथमपि स्खलितादिदोषदुष्टमपि मूत्रं निगदतो भावतः शुद्धस्य तस्य भावसूत्रमेव भवति, तथा, सो अपि प्रत्युपेक्षणादिक्रिया उपयुक्तस्य कुर्वतः कर्मनिर्जराफला एव भवन्ति । अतः सर्वेष्वपि भगवदुक्तानुष्ठानेष्वन्तःप्रणिधानेऽतिप्रयत्नः कार्य इति ॥ ८५९ ॥ ८६०॥
इह चाधिक-हीनाक्षरश्रुतपाठेऽपायदर्शनार्थमुदाहरणान्याह। अहिए कुणाल-कविणो हीणे विज्जाहराइदिळंता । बाला-उरातिभोयण-भेसजविवजआ उभए॥ ८६१ ॥
अक्षर-विन्द्वायधिकसूत्रपाठे कुणालनामा राजपुत्रः, कपिश्च वानर उदाहरणम् । हीनाक्षरपाठे तु विद्याधरादयः । अधिक-N हीनाक्षरलक्षणे तूभये बाला-ऽऽतुरयोरतिभोजन-भेषजविपर्ययो बाला-ऽऽतुरातिभोजन-भेषजविपर्ययो, इति समासः- अतिमात्र हीनमात्रं च भोजनं यथा बालस्य, भेषजं तु तथाभूतं यथाऽऽतुरस्य दोषाय, तथा मूत्रमपीति भावः ॥ ८६१ ॥
, यथा सर्वदोपरहितमपि निगदतः सूत्रमनुपयुक्तस्य । द्रव्यश्रुतं द्रव्यावासकं च तथा सर्व क्रियाः॥ ८५९ ॥
उपयुक्तस्य तु स्खलितादिकमपि शुबस्य भावतः सूत्रम् । कथयति तथा क्रियाः सर्वा निर्जराफलाः ॥ ८६०॥ २ अधिक कुणाल-कपी होने विद्याधरादिष्टान्ताः । बाला-ऽऽतुरातिभोजन भैषज्यविपर्ययावुभयस्मिन् ॥ ८ ॥
PRASADAPA
Para