________________
अथ कोऽयं कुणालनामा राजपुत्र उदाहरणम् ?, इति तत्कथासूचनाय श्लोकमाह- 'चंदगुत्तेत्यादि । अस्यार्थः कथानकादविशेषा० वसेयः, तच्चेदम्॥४०९॥
पाटलीपुत्रनामनगरे मौर्यवंशसमुद्भवोऽशोकश्रीनार्म भूपालः । तस्य चैकस्या राझ्याः कुणालनामा तनयः समुत्पन्नः । तस्य च भुक्तौ उज्जयिनीनगरी नरपतिना प्रदत्ता । ततश्च सातिरेकाष्टवार्षिक तस्मिन् कुमारे लेखवाहकेनाऽऽगत्याऽशोकश्रीराजाय निवेदितम् , यथाo एतावति वयसि वर्तते युष्मत्पुत्रः। ततश्चान्तःपुरोपविष्टेन भूपतिना स्वहस्तेनैव लिखितः कुमाराय लेखः। तस्य तत्र चेदमलेखि, यथा
'इदानीमधीयतां कुमारः। तं च लेखमसंवर्तितमेव मुक्त्वा शरीरचिन्तार्थमुत्थितो नरनाथः । ततश्चैकया राझ्या गृहीत्वा वाचितोऽसौ लेखः । चिन्तितं च, यथा- ममापि विद्यते पुत्रः, केवलं लघुरसौ, महांश्च कुणालः, ततस्तस्मिन् राज्ययोग्यतां विभ्रति न मदीयपुत्रस्य राज्यावाप्तिः, ततस्तथा करोमि, यथा कुणालो राज्यस्याऽयोग्यो भवति, अवसरश्वायम् । इति विचिन्त्य निष्ठीवनार्दीकृतया हस्तस्थितनयनाञ्जनशलाकयाऽकारस्योपरि प्रदत्तो बिन्दुः। जातं च ततः 'अंधीयतां कुमार' । ततस्तथैव राज्या मुक्तस्तत्रैव प्रदेशे लेखः। राज्ञा च कथमपि पुनरवाचित एव संवर्तितोऽसौ । गतश्च कुमारसमीपम् । अवधारितश्च केनापि नियोगिना, अप्रकटश्च विरुद्ध इति मत्वान वाचितः । कुमारनिर्बन्धे च वाचितः । ततो विज्ञातलेखार्थेन प्रोक्तं कुमारेण-मौर्यवंशोद्भवानामस्माकमाज्ञां भुवनेऽपि न कश्चित् खण्डयति, तत् किमहमेव तातस्याऽऽज्ञा लयिष्यामि, न भवत्येवैतत् , इत्युक्त्वा तत्क्षण एवाऽग्नितप्तां लोहशलाकां गृहीत्वा मुक्तहाहारवे सर्वस्मिन्नपि परिजने निवारयति अञ्जिते अभिणी । जातश्चान्धः । ततो विज्ञातसमस्तैतद्वयतिकरो राजा महान्तं खेदं विधाय कुणालस्योजयिनीमुत्सार्योचितं किमप्यन्यनाममात्र दत्तवान् ।
तत्र च स्थितेन कुणालकुमारेण शिक्षिता प्रकर्षवती गीतकला। पुत्रश्चान्यदा तस्य समुत्पनः । ततस्तद्राज्यावाप्तिनिमित्तं गतः | पाटलीपुत्रं नगरं कुणालः । समाक्षिप्तश्चातीव तनगरनिवासी समस्तोऽपि लोकस्तेन गीतकलया। गता च तत्प्रसिद्धिः। भूपालान्तिकं नीतश्चासौ । तत्र कृतं च यवनिकान्तरे तेन गीतम् । अतीवाक्षिप्तश्च जगाद पृथिवीपतिः- याचस्व भोः!, प्रयच्छामि तव समीहितम् । ततः पठितं कुणालेन
चंदगुत्तपपुत्तो उ बिंदुसारस्स नत्तुओ । असोगसिरिणो पुत्तो अंधो जायइ कागणिं ॥ ८६२ ॥
॥४०९॥
क. ग, 'धानकसू' । २ प. छ, 'अन' । ३ चन्द्रगुप्तप्रपौत्रस्तु बिन्दुसारस्य नप्तृकः । अशोकश्रियः पुत्रोऽन्धो याचते राज्यम् ॥ ८६२ ॥