________________
सरसर
विशेषा ॥४७॥
अथ चालना-प्रत्यवस्थाने पाह
सुत्तगयमत्थविसयं व दूसणं चालणं मयं, तस्स । सह-त्थण्णायाओ परिहारो पच्चवत्थाणं ॥ १०.७॥ वृहा
यत् सूत्रविषयम् , अर्थविषयं वा शिष्य-प्रेरकैर्दूषणमुद्भाव्यते, तञ्चालनं विचारो मतमभितम् । मूरीणां 'तस्स त्ति' तस्य . चालनस्य परिहारः प्रत्यवस्थानं दुषितसिद्धिरित्यर्थः । कस्माद् योऽसौ परिहारः?, इत्याह- शब्दा-ऽर्थन्यायतः-शब्दविषयिणा न्यायेन शब्दसंभविन्या युक्त्या शब्दगतंदूषणस्य परिहारः, अर्थविषयिणा न्यायेनार्थसंभविन्या युक्त्यार्थगतदूषणस्य परिहारः प्रत्यवस्थान | दूषितसिद्धिरिति भावार्थः । नयमतविशेषाच्च शब्दा-ऽर्थगतदूषणस्य परिहारः प्रत्यवस्थानमित्यपि द्रष्टव्यम् ।
इदमुक्तं भवति- 'करोमि भदन्त ! सामायिकम्' इत्यादौ गुर्वामन्त्रणवचनो भदन्तशब्द इत्युक्ते कश्चिच्चालनां करोति- नन्वेवं तर्हि गुरुविरहे भदन्तशब्दाऽनभिधानप्रसङ्गः, अभिधाने वाऽऽनर्थक्यादिदोषप्रसङ्गः । अत्र प्रत्यवस्थानमुच्यते- आचार्याभावे स्थापनाचार्यस्य पुरतः सर्वापि सामाचारी क्रियत इति ज्ञापनार्थमिदम् , अन्यत्रापि चोक्तम्- “ ठेवणाआयरियस्स सामायारी पउंजए यं" इत्यादि । तथा, दृश्यते चार्हदभावेऽहत्प्रतिमोपवेशनमिति । अथवा , गुरुविरहेऽपि स्वातन्त्र्यनिषेधो विनयमूलधर्मोपदर्शनार्थं च गुरुगुणज्ञानोपयोगो विधेय इत्येतच्चानेन ज्ञाप्यते । यदि वा, नाम-स्थापना द्रव्य-भावभेदाच्चतुर्विध आचार्यः, तत्राचार्योपयोगरूपो योऽसौ भावाचार्यः शिष्यस्य मनसि वर्तते, तद्विषयमिदमामन्त्रणं मनोविवर्तमानगुणमयाचार्यनिबन्धनमिति भावः । अतो गुरुविरहोऽप्यत्रासिद्ध एवेति भावः । इत्येवमन्यत्रापि चालना-प्रत्यवस्थाने यथासंभवमभ्यूह्ये इति । तदनेन
“संहिता च पदं चैव पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं व्याख्या तन्त्रस्य षड्विधा ॥ १॥" इत्येतद् यदन्यत्र पड्विध व्याख्यास्वरूपमुक्तम् , तदिह समर्थितमिति ॥१००७ ।।
नन्विदं षड्विधं व्याख्यास्वरूपं सर्वत्रापि व्यापकम् , आहोस्वित् प्रतिनियतसूत्रविषयम् ?, इत्यत्रोपसंहारगर्भमुत्तरम् , नैगमादिनयविषयं च दर्शयन्नाह
॥४७०॥
१ सूत्रगतमर्थविषयं वा दूषणं चालनं मतं तस्य । शब्दा-ऽर्थन्यायात् परिहारः प्रत्यवस्थानम् ॥ १०.०॥ २ क. 'तविषयिदू। ३क. 'णप'। ४ क. ग. 'गुर्वभावे भ'। ५ स्थापनाचार्यस्य सामाचारी प्रयुज्यते च । क. ग. 'पसेवन' ।
Jan Education interna
For Personal and Private Use Only
T
um.jaineltrary.org