SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ मर्थ कथयति, सोऽनुमानतः पदार्थ उच्यते, यथा- कथयन्ति मिथ्यादर्शनादीनि, पुनर्मोक्षमार्गो न भवति' इत्यर्थादेव गम्यत इति । तथा, विशेषा० लेशतः पदार्थो भवति, तत्र 'लिश श्लेषणे' लेशः श्लेषः, श्लिष्टं, समस्तमिति यावत् , तन्निर्देशात् पदार्थो गम्यते; यथा 'सम्यग्दर्शन ज्ञान-चारित्राणि' इति त्रयाणामपि समस्तानां निर्देशात् 'समुदितानामेव मोक्षमार्गत्वम् , नैकैकशः' इति गम्यते । ततोऽसौ लेशेन श्लेषण ॥४६९॥ HD चितो लेशतः पदार्थोऽभिधीयते । तदेवं प्रकारान्तरेणाऽप्युक्तस्त्रिविधः पदार्थः । _ अथवा, यथासंभवमागमतः, हेतुतश्च द्विविधः पदार्थो वाच्यः, तत्र भव्या-ऽभव्य-निगोदादिप्रतिपादकपदानामागमत आज्ञामात्रेणैवाऽर्थः प्रतिपाद्यते । न हि भव्या-ऽभव्यादिभावप्ररूपणे आगमं विहाय प्रायः प्रमाणान्तरं प्रवर्तते । अतोऽयमागमतः पदार्थ उच्यते । यत्र च हेतुः संभवति, तत्र हेतुतः पदार्थोऽभिधीयते, यथा-- कायप्रमाण आत्मा न सर्वगतः, कर्तृत्वात् , कुलालादिवत् , इत्यादि । ननु मूर्त आत्मा, कर्तृत्वात् , कुलालादिवत् , इत्येवं मूर्तिमत्वमप्यात्मनोऽनेन हेतुना सिध्यतीति चेत् । सत्यम् , इष्यत एव संसाफत्मनो मूर्तत्वमपि, इति न किञ्चिद् नः श्रूयते । इति हेतुतोऽयं पदार्थोऽभिधीयते । तदनेन .... आणागेझो अत्थो आणाए चेव सो कहेयब्बो । दिट्ठतिओ दिटुंता कहणविहिविराहणा इहरा ॥ १ ॥" इत्ययमर्थः समर्थितो भवतीति । तदेवमुक्तो विस्तरतः पदार्थः ॥ १००३ ॥१००४ ॥१००५॥ अथ पदविग्रहमाह पायं पयविच्छेओ सामासविसओ तयत्थनियमत्थं । पयविग्गहो त्ति भण्णइ सो सुद्धपए न संभवइ ॥१००६॥ - इह प्रायेण यः समासविषयः पदयोः पदानां वाऽनेकार्थसंभवे सतीष्टपदार्थनियमाय विच्छेदः क्रियते स पदविग्रहः, यथाराज्ञः पुरुषो राजपुरुषः, श्वेतः पटोऽस्येति श्वेतपटः, मत्ता बहवो मातङ्गा यस्मिन् वने तद् मत्तबहुमातङ्गं वनमित्यादि । स च शुद्ध एकस्मिन् पदे न संभवति, अतः पदयोः, पदानां चेत्युच्यते । इह कश्चित् पदविच्छेदोऽपि समासविषयो न भवति, कचित् समासनिषेधात् । यथा-व्यासः पारासर्यः, रामो जामदग्न्य इत्यादि । अतः मायोग्रहणपिति ॥१००६॥ १ आज्ञाग्राह्योऽर्थ आज्ञयैव स कथयितव्यः । दान्तिको दृष्टान्तात् कथनविधिविराधनेतरथा ॥1॥ २ क. ग, 'णागज्झो' । ३ प्रायः पदविच्छेदः समासविषयस्तदर्थनियमार्थम् । पदविग्रह इति भण्यते स शुद्धपदे न संभवति ।। १०.६ ॥ मुमारासससससातापसासाराम d॥४६९॥ Choices Educa
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy