________________
विशेषा.
वृहद्वात्तः।
॥४६८॥
पैयमत्थवायगं जोयगं च तं नामियाई पंचविहं । कारग-समास-तद्धिय-निरुत्तवञ्चो वि य पयत्थो ॥१००३॥ परबोहहिओ वत्थो किरिया-कारगविहाणओ वच्चो । पजायवयणओ वि य तह भूयत्थाभिहाणेण ॥१०० पच्चक्खओऽहवा सोऽणुमाणओ लेसओ च सुत्तस्स । वच्चो व जहासंभवमागमओ हेउओ चेव ॥१००५॥
पदं द्विविधं भवति- अर्थवाचकम् , द्योतकं च । तत्र 'वृक्षः, तिष्ठति' इत्यादि वाचकम् । प्रादिकम् , चादिकं च द्योतकम् । तथा, पुनरपि पदं सामान्येन पञ्चविधं नामिकादि । तत्र 'अश्वः' इति नामिकम् , 'खलु' इति नैपातिकम् , 'परि' इत्यौपसर्गिकम् , 'धावति' इत्याख्यातिकम् , 'संयतः' इति मिश्रम् । एवंभूतानां पदानां विच्छेदो द्वितीयं व्याख्यानाङ्गम् । तृतीयं तु व्याख्यानाङ्गं पदार्थः । स च कारकवाच्यादिभेदाच्चतुर्विधः । तत्र कारकेणोच्यत इति कारकवाच्यः, कारकविषय इत्यर्थः, यथा 'पचतीति पाचक' इत्यादि । समासेनोच्यते समासवाच्यः, 'राज्ञः पुरुषो राजपुरुषः' इत्यादि । तद्धितेनोच्यते तद्धितवाच्यः, 'वसुदेवस्याऽपत्यं वासुदेवः' इत्यादि । निरुक्तेनोच्यते निरुक्तवाच्यः, 'भ्रमति च रौति च भ्रमरः' इत्यादि । तदेवं पदार्थस्य चातुर्वैध्यमुक्तम् ।
अथ प्रकारान्तरेण त्रिधोऽप्येष संभवतीति दर्शयति- 'परवाहेत्यादि' वेत्यथवा, परेषां श्रोतृणां बोधः परबोधः, तत्र कर्तव्ये हितो योऽर्थः पदार्थः स त्रिविधोऽपि वाच्यः, तद्यथा- क्रियाकारकविधानतः, पर्यायवचनतः, भूतार्थाभिधानेन च । तत्र क्रियाकारकभेदेन यथा- 'घट चेष्टायाम्' घटतेऽसाविति घटः। पर्यायवचनैर्यथा- घटः, कुटः, कुम्भः, कलश इत्यादि । भूतः सद्भूतो यथावस्थितोऽर्थस्तदभिधानतस्तत्परूपणेन च पदाथों वाच्यः, तद्यथा- य ऊर्ध्वकुण्डलोष्ट आयतवृत्तग्रीवः पृथुबुझ्नोदरः स घट उच्यत इत्यादि।
अथवा, अन्यथा पदार्थः मूत्रस्याऽर्थस्विविधो वाच्यः, तद्यथा-प्रत्यक्षतः, अनुमानतः, लेशतश्च । अत्र प्रत्यक्षेणैव यादृशं पुस्तकादिलिखितमुपलभ्यते, गुरुमुखाद् वा यादृशं श्रूयते, तादृशमेव साक्षाद् यत्र प्ररूप्यते, स प्रत्यक्षतः पदार्थ उच्यते; यथा-"सम्यगद्र्शन-ज्ञान-चारित्राणि मोक्षमार्गः" इति गुरुमुखादेःश्रवणादिप्रत्यक्षेणोपलभ्य सम्यग्दर्शनादीनां मोक्षमार्गत्वं प्ररूपयति । अनुमानं त्विहापत्तिरूपं गृह्यते, तस्यामप्यन्यथानुपपन्नार्थादतीन्द्रियस्य साध्यार्थस्याऽनुमीयमानत्वात् । तत्र प्रत्यक्षोपलब्ध एवार्थो यमापत्तिलब्ध
१ पदमर्थवाचकं द्योतकं च तद्' नामिकादि पञ्चविधम् । कारक-समास-तद्धित्त-निरुक्तवाच्योऽपि च पदार्थः ॥ १.०३ ॥ . परबोधहितो वाऽर्थः क्रिया-कारकविधानतो वाच्यः । पर्यायवचनतोऽपि च तथा भूतार्थाभिधानेन ॥ १.०४॥ प्रत्यक्षतोऽधवा सोअनुमानतो लेशतश्च सूत्रस्य । वाच्यो वा यथासंभवमागमतो हेतुतश्चैव ।। १००५ ।। २ घ. छ. 'ख्यानं। ३ क. ग, 'यविधान'। ४ तत्वार्थाधिगमसूत्रे,
॥४६८॥
For Personal and v
e ry