________________
विशेषा०
॥४६७॥
Jain Educationa Internat
सूत्रानुगमावसरत्वात् सूत्रेऽनुगते उच्चारिते सति, यथा- “करेमि भन्ते ! सामाइयं सव्वं सावज्जं जोगं" इत्यादि; तथा, सर्वदोषरहितत्वात् 'शुद्धमिदम्' इत्येवं निश्चिते; तथा व्याख्यानावसरत्वादेव 'करोमि, भदन्त !, सामायिकम्, सावयं, योगम् ' इत्यादिपदच्छेदे कृते; तथा सूत्रालापकानां यथासंभवं नाम स्थापनादिन्यासे निक्षिप्ते न्यस्ते विहिते, ततस्तव्याख्यानार्थ सूत्रस्पर्शिकनिर्युक्तेर्व्यापारः ॥ इति द्वात्रिंशद्वाथार्थः ।। १००० ॥
एवं च सति किम् ?, इत्याह
एवं सुत्तागमो सुत्तालावगगओ य निक्खेवो । सुत्तप्फासियजुत्ती नया य वच्चंति समयं तु ॥ १०० ॥ तदेवं सूत्रानुगमोऽनुगमप्रथमभेदः; तथा सूत्रालापकगतश्च निक्षेपो निक्षेपद्वारतृतीयभेदः ; तथा, सूत्रस्पर्शिका निर्युक्तिर्निर्युत्यनुगमतृतीयभेदः तथा, नयाश्च चतुर्थानुयोगद्वारोपन्यस्ताः समकं युगपत् प्रतिसूत्रं व्रजन्ति गच्छन्तीति ।। १००१ ॥
आह विनेयः नन्वनुगमोऽयं द्विविधोऽपि भणितः परमसौ तावद् व्याख्यास्वरूपः, तत्र व्याख्यायाः किं लक्षणम् १, इति
अत्राह -
सुत्तं पयं पयत्थो संभवओ विग्गहो वियारो य । दूसियसिद्धी नयमयविसेसओ नेयमणुसुतं ॥ १००२॥
व्याख्यानविधौ प्रस्तुते प्रथमं तावदस्खलितादिगुणोपेतं यथोक्तलक्षणयुक्तं सूत्रमुच्चारणीयम् । इयं चान्यत्राऽस्खलित पदोच्चारणरूपा संहिता भण्यते । ततश्च 'पदं' इति पदच्छेदो दर्शनीयः । ततः पदार्थों वक्तव्यः । ततः संभवतो विग्रहः समासः कर्तव्यः । ततश्चालनारूपो विचारः कर्तव्यः । ततो दूषितसिद्धिः- दूपणपरिहारः प्रत्यवस्थानरूपो निरूपणीयः । एवमुक्तक्रमेणाऽनुसूत्रं प्रति सूत्रं नियमितविशेषतो नयानां मतविशेषैर्व्याख्यानं ज्ञेयम् । इति गाथासंक्षेपार्थः । विस्तरार्थस्तु संहितायाः सूत्रलक्षणाभिधानतो भाष्यकारेण वस्तुतोऽभिहित एव ।। १००२ ॥
पदादिगतं त्वमुं स एवाह
१ एवं सूत्रानुगमः सूत्रालापकगतश्च निक्षेपः । सूत्रस्पर्शिक ( निर् ) युक्तिर्नयाश्च व्रजन्ति समकं तु ॥ १००१ ॥ २ सूत्रं पदं पदार्थ संभवतो विग्रहो विचारश्च ।। दूषितसिद्धिर्नियमत विशेषतो ज्ञेयमनुसूत्रम् ॥ १००२ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥४६७॥
www.jainelibrary.org