________________
विशेषा०
॥४६५॥
Jain Educations International
“ तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः । प्रावर्तत नदी घोरा हस्त्य - ऽश्व रथावहिनी ॥ १ ॥ "
इत्यादि ॥ १ ॥
क्रमभिन्नम् - यत्र क्रमो नाराध्यते, यथा- 'स्पर्शन- रसन-प्राण-चक्षुः श्रोत्राणामर्थाः स्पर्श-रस- गन्ध-रूप- शब्दाः' इति वक्तव्ये 'स्पर्श-रूप- शब्द - गन्ध- रसाः' इति ब्रूयादित्यादि । वचनभिन्नम् - यत्र वचनव्यत्ययः, यथा - 'वृक्षावेतौ पुष्पिताः' इत्यादि । विभक्तिभिन्नम्, यथा- 'वृक्षं पश्य' इति वाच्ये 'वृक्षः पश्य' इति वदेदित्यादि । लिङ्गभिन्नम् - यत्र लिङ्गव्यत्ययः, यथा - 'अयं स्त्री' इत्यादि । अनभिहितम् - स्वसिद्धान्तेऽनुपदिष्टम्, यथा- 'सप्तमः पदार्थों वैशेषिकस्य, प्रकृति-पुरुषाभ्यामभ्यधिकं सांख्यस्य, दुःख समुदय-मार्गनिरोधलक्षणचतुरार्यसत्यातिरिक्तं वा बौद्धस्य' इत्यादि । पयबन्धेऽन्यच्छन्दोऽधिकारेऽन्यच्छन्दोऽभिधानमपदम्, यथा- 'आर्यापदेऽभिधातव्ये वैतालीयपदमभिदध्यात्' इत्यादि । यत्र वस्तुस्वभावोऽन्यथास्थितोऽन्यथाऽभिधीयते, तत् स्वभावहीनम्, यथा- 'शीतो बहिः, मूर्तिमदाकाशम्' इत्यादि । यत्र प्रकृतमुत्सृज्या प्रकृतं व्यासतोऽभिधाय पुनः प्रकृतमुच्यते, तद् व्यवहितम् ॥ २ ॥
कालदोष:- यत्राऽतीतादिकालव्यत्ययः, यथा - 'रामो वनं प्रविवेश' इति वक्तव्ये 'रामो वनं प्रविशति' इत्याहेत्यादि । यतिदोष:- अस्थानविरतिः, सर्वथाऽविरतिर्वेति । छविरलङ्कारविशेषस्तेजस्विता तद्रहिते छविदोषः । समैयविरुद्धम् - खसिद्धान्तविरोधि, यथा - 'सांख्यस्याsसत् कारणे कार्यम्, वैशेषिकस्य वा सत्' इत्यादि । वचनमात्रम्- निर्हेतुकम्, यथा- 'कश्चिद यथेच्छया कश्चित् प्रदेशं लोकमध्यतया जनेभ्यः प्ररूपयति' । यत्रार्थापत्याऽनिष्टमापतति, तत्रार्थापत्तिदोष:, यथा- 'गृहकुक्कुरो न हन्तव्यः' इत्युक्तेऽर्थापच्या 'शेषघातोऽदुष्टः' इत्यापतति । यत्र समासविधिप्राप्तौ समासं न करोति, व्यत्ययेन वा करोति, तत्र समासदोषः ॥ ३ ॥
उपमादोषः - यत्र हीनोपमा क्रियते, यथा- 'मेरुः सर्पपोपमः' अधिकोषमा वा क्रियते, यथा- 'सर्पपो मेरुसंनिभः । अनुपावाऽभिधीयते, यथा- 'मेरुः समुद्रोपमः' इत्यादि । स्वरूपभूतानामवयवानामरूपणम्, व्यत्ययरूपणं वा स रूपकदोषः, यथा - 'पर्वते रूपयितव्ये तत्स्वरूपभूतान् शिखरादीनवयवान् न रूपयति अन्यस्य वा समुद्रादेः संबन्धिनस्तांस्तत्र रूपयति' इत्यादि । निर्देशदोष:यत्र निर्दिष्टपदानामेकवाक्यता न क्रियते, यथा- 'इह देवदत्तः स्थाल्यां पचति' इत्यभिधातव्ये पचतिशब्दं नाभिधत्ते । पदार्थदोष:-- यत्र वस्तुपर्यायोऽपि सन् पदार्थान्तरत्वेन कल्प्यते, यथा- सतो भावः सत्तेति कृत्वा वस्तुपर्याय एव सत्ता, सा च वैशेषिकैः षट्सु पदा
१ क. ग. 'नं वि'। २ घ. छ. 'नं वि' । ३ क. ग. 'मये वि'
५९
For Personal and Private Use Only
बृहद्वृत्तिः ।
||४६५||
www.jainelibrary.org