SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ बृहद्वत्तिः । विशेषा० ॥४६४॥ उबमा-रूवगदोसो निद्देस-पयत्थ-संघिदोसो य । एए उ सुत्तदोसा बत्तीस होति नायव्वा ॥ १ ॥" तत्राऽलीकमभूतोद्भावनम् , भूतनिहवश्च ; यथा- 'ईश्वरकर्तृकं जगत्' इत्याद्यभूतोद्भावनम् , 'नास्त्यात्मा' इत्यादिकस्तु भूतनि- हवः। उपघातजनकं सत्त्वोपघातादिप्रवर्तकम् , यथा- 'वेदविहिता हिंसा धर्माय' इत्यादि । निरर्थकम्- यत्र वर्णानां क्रमनिर्देशमात्रमुपलभ्यते, न त्वर्थः, यथा- 'अ आ इ ई' इत्यादि, डित्यादिवद् वेति । अपार्थकम्- असंबद्धार्थम् , यथा- 'दश दाडिमानि, षडपूपाः, कुण्डमजाऽजिनम् , पललपिण्डः, त्वर कीटिके, दिशमुदीचीम्' इत्यादि । यत्राऽनिष्टस्यार्थान्तरस्य संभवतो विवक्षितार्थोपघातः कर्तुं शक्यते तच्छलम् , यथा- 'नवकम्बलो देवदत्तः' इत्यादि । जन्तूनामहितोपदेशेन पापव्यापारपोषकत्वाद् द्रोहस्वभावं द्रुहिलम् , यथा 'यस्य बुद्धिर्न लिप्येत हत्वा सर्वमिदं जगत् । आकाशमिव पङ्केन नासौ लिप्येत कर्मणा ॥१॥" तथा "एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य यद् वदन्ति बहुश्रुताः ॥ १॥" "पिब खाद च साधु शोभने ! यदतीतं वरगात्रि! तद् न ते । न हि भीरु ! गतं निवर्तते समुदयमात्रमिदं कलेवरम् ॥ १॥" इत्यादि । निःसारम्- वेदवचनादिवत् तथाविधयुक्तिविकलं परिफलिवति । अधिकम् - अक्षर-मात्रा-पदादिभिरभ्यधिकम् । तैरेव हीनमूनम् । अथवा, हेतू-दाहरणाभ्यधिकमधिकम् , यथा- 'अनित्यः शब्दः, कृतकत्व-प्रयनानन्तरीयकत्वाभ्याम्' इति हेत्वधिकम् : 'अनित्यः शब्दः, कृतकत्वात् , घट-पटवत्' इत्युदाहरणाधिकमित्यादि । एताभ्यामेव हीनमूनम् , यथा 'अनित्यः शब्दः, घटवत्' इति हेतूनम् : 'अनित्यः शब्दः, कृतकत्वात्' इत्युदाहरणहीनमित्यादि । पुनरुक्तं द्विधा- शब्दतः, अर्थतश्च । तथा, अर्थापन्नस्य पुनर्वचनं च पुनरुक्तम् । तत्र शब्दतः पुनरुक्तं यथा- 'घटः, घटः, घटः' इत्यादि । अर्थतः पुनरुक्तं यथा- 'घटः, कुटः, कुम्भः' इत्यादि । अर्थापन्नस्य पुनर्वचनं यथा- 'पीनो देवदत्तो दिवा न भुक्त' इत्युक्तेादेव गम्यते- 'रात्रौ भुक्त' इति । तत्रार्थापनमपि यः साक्षादेतद् ब्रूयात् , तस्य पुनरुक्तता । व्याहतं यत्र पूर्वेण परं विहन्यते, यथा- 'कर्म चास्ति फलं चास्ति कर्ता न त्वस्ति कर्मणाम्' इत्यादि । अयुक्तम्- अनुपपत्तिक्षमम् , यथा 1 उपमा-रूपकदोषो निर्देश-पदार्थ-संधिदोषश्च । एते तु सूत्रदाषा द्वात्रिंपाद् भवन्ति ज्ञातव्याः ॥ ४ ॥ ॥४६४॥ Jain Edmont for Personal and Private Use Only www.jainelibrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy