________________
विशेषा०
॥४६३॥
Jain Educationa Internation
तस्याः सूत्रस्पर्शिकनिर्युक्तेर्यद्येतदस्थानम्, ततः सा किमितीह भण्यते ? इति । अत्राह - नवरमिह नियुक्तिभणनप्रस्तावे सा निर्युक्तिसाम्यमात्राद् भण्यते, न तु सूत्रस्पर्शिकत्वेन प्रवर्तते, सूत्रस्याऽयाप्यसत्त्वादिति । तदेवं त्रिविधापि निर्युक्तिरुक्ता । ततो नियुक्त्यनु- बृहद्वृत्तिः । गमः समर्थितः ।। ९९७ ॥
सांप्रतं सूत्रानुगमो भणनीयः, इति तमेव संबन्धयन्नाह -
'तेणेदाणि सुत्तं सुत्ताणुगमेऽभिधेयमणवज्जं । अक्खलियाइविसुद्धं सलक्खणं लक्खणं चेमं ॥ ९९८ ॥ येन सूत्रे सत्येव सूत्रस्पर्शिकनिर्युक्तिः प्रवर्तते, तेनेदानीं सूत्रानुगमे क्रमप्राप्ते सूत्रमभिधेयम् । कथंभूतम् ?, अनवद्यम् - ऊनाधिक्यादिदोषावद्यरहितम् । पुनः कथंभूतम् ?, अस्खलितादिविशुद्धम् - स्खलित-मिलितादिवक्तृदूषणविशुद्धम् । सह वक्ष्यमाणेन लक्षणेन प्रवर्तत इति सलक्षणम् । तेच लक्षणमिदम् ॥ ९९८ ॥
किं तत् १, इत्याह-
ग्रंथ महत्थं बत्तीसादोषविरहियं जं च । लक्खणजुत्तं सुत्तं अट्ठहि य गुणेहिं उववेयं ॥ ९९९ ॥ अल्पग्रन्थं महार्थे च सूत्रं विज्ञेयम्, “उत्पाद-व्यय-धौव्ययुक्तं सत्" इत्यादिवत् सूत्रमल्पग्रन्थं महार्थं च भवतीत्यर्थः यच्च द्वात्रिंशदोषविरहितम्, तल्लक्षणयुक्तं सूत्रमुच्यते । ते चैतेऽन्यत्रोक्ता द्वात्रिंशद् दोषाः
“अलियमुत्रघायजणयं निरत्थयमवत्थयं छलं दुहिलं । निस्सारमहियमूणं पुणरुतं वायमजुत्तं ॥ १ ॥ कमभिन्न वयणभिन्नं विभत्तिभिन्नं च लिंगभिन्न च । अणभिहियमपयमेव य सहावहीणं ववहियं च ॥ २ ॥ काल- जइ छविदोसो समयविरुद्धं च वयणमेतं च । अत्थावत्ती दोसो नेओ असमासदोसो य ॥ ३ ॥
१ तेनेदानीं सूत्रं सूत्रानुगमेऽभिधेयमनवद्यम् । अस्खलितादिविशुद्धं सलक्षणं लक्षणं वेदम् ९९८ ॥ २घ. छ. 'तक्ष' । ३ अल्पग्रन्थ महार्थ द्वात्रिंशदोषविरहितं यच्च । लक्षणयुक्तं सूत्रमष्टाभिश्च गुणैरुपावेतम् ॥ ९९९ ॥ ४ तत्वार्थसूत्रे ५, २९ । ५ अलीकमुपघात जनकं निरर्थकमपार्थक छलं दुहिलम् । निःसारमधिकमूनं पुनरुक्तं व्याहतमयुक्तम् ॥ १ ॥ safe वचनभिनं विभक्तिभङ्गिनं च । अनभिहितमपदमेव च स्वभावहीनं व्यवहितं च ॥ २ ॥ काल-यति-च्छविदोषः समयविरुद्धं च वचनमात्रं च । अर्थापत्तिर्दोषो ज्ञेयोऽसमासदोषश्च ॥ ३ ॥
For Personal and Private Use Only
॥४६३॥
www.jainelibrary.org