________________
विशेषा०
॥४६२॥
Jain Educationa Internation
परिहारान्तरमाह
नास व संबंधमुकमोऽयं तु सुत्तवक्खाए । संबंधोवग्धाओ भण्णइ जं सा ततमि ॥ ९९४ ॥
अथवा, न्यासस्याsध्ययन संबन्धिनो नामादिनिक्षेपस्य संबन्धनं तद्योग्यताऽऽपादनमुपक्रम उच्यते, तदन्ते तत्प्रतिपादनात् । अयं तूपोद्घातः सूत्रव्याख्यायाः संबन्धस्तद्योग्यताव्यवस्थापनरूपः यद् यस्मात् तदन्ते उपोद्घातान्ते सैव सूत्रव्याख्या भण्यते । इत्युपक्रमोपोद्धातयोर्विशेषः । तदेवमभिहितं संक्षेपेणोपोद्घातनिर्युक्तेर्भावार्थमात्रम् ; विस्तरार्थस्तु पुरस्तादभिधास्यते ।। ९९४ ।।
अथ सूत्रस्पर्शिक निर्युक्तेरवसरः, तदाह
सेंपइ सुत्तफासियनिज्जुत्ती जं सुयरस वक्खाणं । तीसेऽवसरो सा उण पत्ता विण भण्णए इह ॥ ९९५॥ यत् सूत्रस्य व्याख्यानं सा सूत्रस्पर्शिक नियुक्तिः । सूत्रं व्याख्यानहेतोः स्पृशतीति सूत्रस्पर्शिका, सा चासौ निर्युक्तिश्व सूत्रस्प शिकनिर्युक्तिरित्यर्थः । सांप्रतं तस्या भणितव्याऽवसरः परं सा क्रमप्राप्ताऽपि नेह भण्यते ।। ९९५ ।
अत्र विनेयप्रश्नमाशङ्कयोत्तरमाह -
* किं जेणासइ सुत्ते कस्स तई तं जया कमप्पत्ते । सुत्ताणुगमे वोच्छिइ होहिइ तीए तया भागो ॥९९६॥
किं कारणम्, येन क्रमप्राप्तापि नेहासौ भण्यते ? । उच्यते येनाऽसति सूत्रे ' कस्स तई त्ति कस्य सा प्रवर्तते १ । सूत्रं हि स्पृशतीति सूत्रस्पर्शिका भण्यते तच्च नास्ति, तत्कथं तदवसरः । कदा पुनरसौ तर्हि भविष्यति ?, इत्याह- 'तमित्यादि' तत् सूत्रं क्रमप्राप्ते सूत्रानुगमे यदा वक्ष्यति, तदा तस्यास्तदर्थव्याख्यारूपत्वाद् भागोऽवसरो भविष्यति, नाग् ॥ ९९६ ॥
पुनराह प्रेरक:
अत्थाणमिदं तीसे जइ तो सा कीस भण्णए इहई ? । इह सा भण्णइ निज्जुत्तिमेत्तसामन्नाओ नवरं ॥ ९९७॥
१ म्यासस्य वा संबन्धनमुपक्रमोऽयं तु सूत्रव्याख्यायाः । संबन्ध उपोद्घातो भण्यते यत् सा तदन्ते
९९४ ॥
२ संप्रति सूग्रस्पर्शिकनिर्युक्तिर्यत् श्रुतस्य व्याख्यानम् । तस्या अवसरः सा पुनः प्राप्तापि न भण्यत इह ॥ ९९५ ॥
३ किं येनासति सूत्रे कस्य सा तद् यदा क्रमप्राप्ते । सूत्रानुगमे वक्ष्यते भविष्यति तस्यास्तदा भागः ॥ ९९६ ॥
४ अर्थानामिदं तस्यां यदि ततः सा कस्माद् भण्यत इह ? । इह सा भण्यते नियुक्तिमात्रसामान्यतो नवरम् ॥ ९९७ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥४६२॥
ww.jainelltrary.or