________________
विशेषा०
॥४६१॥
Jain Educations Internati
ननु नामद्वारे 'क्षायोपशमिकं सामायिकम्' इत्युक्तं 'तदावरणक्षयोपशमात् तल्लभ्यते' इत्यर्थादुक्तमेव भवति । अतः ' कथं तल्लभ्यते ? ' इत्यर्थप्रतिपादकं किमितीह पुनरपि कथंद्वारमुच्यते ? । अत्रोत्तरमाह - इह कथमितिद्वारे स एवं क्षयोपशमश्चिन्त्यते । कथम् ?, इत्याह- कथं लभ्यते स क्षयोपशमः ? इत्येष विशेषः ॥ ९९० ॥
अथ द्वारवाहुल्याद् ग्रन्थविस्तरमवलोक्य संक्षिपन्नाह
किंबहुना, जमुवक्कम-निक्खेवेसु भणियं पुणो भणइ । अत्थाणुगमावसरे तं वक्खाणाहिगारत्थं ॥ ९९१॥ किंबहुना, सर्वेष्वप्येतेषूपोद्घातद्वारेषु यदुपक्रम-निक्षेपयोणितमपि पुनरप्याचार्यो भणति, तदिहार्थानुगमावसरे पूर्वोपक्रान्तनिक्षिप्तवस्तुव्याख्यानाधिकारार्थम् इत्येवं भावनीयमिति ॥ ९९१ ।।
तदेवमुपोद्वातोक्तेष्वेतेषूद्देशादिद्वारेषु प्रत्येकं विशेषतचालना- प्रत्यवस्थाने अभिधाय, इदानीं सामान्येन सर्वस्याऽप्युपोद्घातस्य चाल
नामाह
सैत्थसमुत्थाणत्थो पायेणोवक्कमो तहाऽयं पि । सत्थस्सोवग्याओ को एएसिं पइविसेसो ? ॥ ९९२ ॥ आह- ननूपक्रमोऽपि प्रायः शास्त्रसमुत्थानार्थमेव, तत्रानुपूर्व्यादिभिर्द्वारैरुपक्रम्य शास्त्रं नामादिन्यासव्याख्यानयोग्यतामानीयत इत्यर्थः तथाsयमप्युपोद्घातः शास्त्रस्योदेश-निर्देश निर्गमादिभिर्द्वारैरुत्थानमुपवर्ण्य व्याख्यानयोग्यतामुपकल्पयति, इति कोऽनयोर्विशेषः १न कश्चित् । तत एतयोर्द्वयोरन्यतर एव वाच्य इत्यभिप्राय इति ।। ९९२ ॥
प्रत्यवस्थानमाह -
उद्देसमेत्तनियओ उवक्कमोऽयं तु तव्विबोहत्थं । पाएणोवग्घाओ नणु भणिओऽयं जओऽणुगमो ॥ ९९३ ॥ उद्देशमात्रनियत एवोपक्रमः- नाम-स्थापना- द्रव्यादिभिः, आनुपूर्व्यादिभिश्च भेदैरुपक्रमः शास्त्रमुद्दिशत्येव, न तु व्याख्यानयतीत्यर्थः । अयं पुनरुपोद्घातः प्रायेण तस्य शास्त्रस्य विबोधार्थो व्याख्यानार्थः । कुत इदं ज्ञायते ?, इत्याह- ननु यस्मादयं प्रस्तुतोऽनुगमो भणितः, उपोद्घातश्चानुगमभेद एव, अनुगमस्य च व्याख्यानरूपत्वात् सिद्धमुपोद्वातस्य व्याख्यानार्थत्वमिति ।। ९९३ ।।
१. ग. 'वचक्ष' २ किंबहुना, यदुपक्रम-निक्षेपयोर्भणितं पुनर्भणति अर्थानुगमावसरे तद् व्याख्यानाधिकारार्थम् ॥ ९९१ ॥ ३ शास्त्रसमुत्थानार्थः प्रायेणोपक्रमस्तथाऽयमपि । शाखस्योपोद्घातः क एतेषां प्रतिविशेषः ? ॥ ९९२ ॥ ४ क. 'स्त्रीदेशोदेशनि' । ५ उद्देशमात्र नियत उपक्रमोऽयं तु तद्विबोधार्थम् । प्रायेणोपोद्वातो ननु भणितोऽयं यतोऽनुगमः ॥ ९९३ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥४६१॥
www.jainellibrary.pro