SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ वाहर विशेषा० ॥४५८॥ अथ निर्गमनं निर्गमः । स च 'कुतः सामायिक निर्गतम् ?' इत्येवंरूपो वक्ष्यते । अत्राक्षेप-परिहारौ प्राह नणु निग्गमो गउ च्चिय अत्ता-णंतर-परंपरागमओ। तित्थयराईहिंतो आगयमेयं परंपरया ॥ ९८१ ॥ ननु पूर्वमागमद्वार एवात्मा-ऽनन्तर-परम्परागमतस्तीर्थकरादिभ्यः परम्परया समागतमेतत् सामायिकमित्यभिधानात् तीर्थकरादिभ्यो निर्गमनमस्य, इत्यवगतत्वाद् गतार्थ एव निर्गमः, किं पुनरिहोपात्तः इति ॥ ९८१ ॥ परिहारमाह इह तेसिं चिय भण्णइ निदेसो निग्गमो जहा तं च । उवयातं तेहिंतो खेत्ताइविसेसियं बहुहा ॥ ९८२ ॥ तेषामेव तीर्थकरादीनां सामान्योद्देशमात्रेण प्रागवगतानामिह विशेषाभिधानरूपो निर्देशो भण्यते, यथा श्रीमन्महावीरतीर्थकरादेतत् सामायिकमर्थतो निर्गतम् , मूत्रतस्तु गौतमादिगणधरेभ्यो निर्गतम् , तथा निर्गमश्चेह मिथ्यात्वाविरत्यादितमसस्तेषां तीर्थकरादीनामत्रोच्यते 'अवरविदेहे गामस्स चिंतओ' इत्यादिना ग्रन्थेन । तथा, तच्च सामायिकं बहुधाऽनेकशः क्षेत्र-काल-पुरुष-कारण-प्रत्ययविशेषितं तेभ्यस्तीर्थकरादिभ्यो यथोपयातमागतम् , तच्चेह भण्यत इति विशेषः ॥ ९८२ ।। . अथ लक्षणद्वारविषयमाक्षेपमाह अज्झयणलक्खणं नणु खओवसमियं गुणप्पमाणे वा । नाणागमाइगहणे भणियं किमिहं पुणो गहणं? ॥९८३॥ लक्ष्यतेऽनेनेति लक्षणम् , तच्च 'सदहण-जाणणा खलु' इत्यादिना सामायिकस्य सावद्ययोगविरत्यादिकं वक्ष्यति । अत्र परः प्रेरयति- नन्वध्ययनस्याऽस्य क्षायोपशमिको भावो लक्षणम, इति प्रागपक्रमभेदरूपे पड़नाम्नि क्षायोपशमिके भावे समवतारादर्थापच्या भणितमेव । अथवा, 'गुणप्रमाणे ज्ञानमिदम्, तत्राप्यागमः' इत्याद्यभिधानादिदं क्षायोपशमिकभावरूपं लक्षणमर्थापच्याभिहितमेव ?, आगमस्य क्षायोपशमिकभावलक्षणत्वात् , किमिहानुगमे लक्षणस्य पुनर्ग्रहणम् ? इति ।। ९८३ ।। , ननु निगमो गत एवाऽऽत्मा-ऽनन्तर-परम्परागमतः । तीर्थकरादिभ्य आगतमेतत् परम्परया ॥ ९८१ ॥ २ इह तेषामेव भण्यते निर्देशो निर्गमो यथा तच्च । उपयातं तेभ्यः क्षेत्रादिविशेषितं बहुधा ॥ ९८२ ॥ ३ अपरविदेहे ग्रामस्य चिन्तकः । ४ अध्ययनलक्षणं ननु क्षायोपशमिकं गुणप्रमाणे वा । ज्ञाना-ऽऽगमादिग्रहणे भणितं किमिह पुनर्ग्रहणम् ? ।। ९८३ ॥ ५ श्रद्वान ज्ञाने खलु । BRASSES ॥४५८॥ Jan Education intem For Personal and Private Use Only www.jaineltrary.ory
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy