________________
विशेषा०
॥४५७||
అందం
अथवा, तत्र द्वारोपन्यासादौ सामान्य विशेषाभिधानरूप उद्देशो निर्देशश्च कृत इत्युपगच्छामः, केवलमिहानुगमावसरेऽर्थव्याख्याप्रस्तावे तयोः पूर्वविहितयोरुद्देश-निर्देशयोर्विधानतो भेदतो व्याख्यानमारब्धमित्यदोष इति ॥ ९७८ ॥
बृहद्वत्तिः । अन्ये तु-ब्रुवते । किम् ?, इत्याह
अन्ने उ विसेस मिहं भणंति नोहेसबद्धमेयं ति । जाणावियमज्झयणं समासदारावयारेणं ॥ ९७९॥
अन्ये तु पूर्वविहितयोरपीह विशेषमाचक्षते- नोद्देशकबद्धमिदमध्ययनमित्येतज्ज्ञापितं किल । कुतः ?, अङ्ग-श्रुतस्कन्धाध्ययनसमासद्वारावतारात् । इदमत्र हृदयम्
नाम ठवणा दविए खेत्ते काले समासउद्देसे । उद्देसुद्देसम्मि य भावम्मि य होइ अट्ठमओ ॥ १ ॥ इति पुरस्तादिदेव वक्ष्यमाणगाथायामुद्देशोऽष्टविधोऽभिधास्यते; तथा, ऐमेव य निदेसों' इत्यादिगाथायां निर्देशोऽपि चाष्टविधो वक्ष्यते । तत्र च समासद्वारे संक्षेपाभिधायकं नाम समासोद्देश इति व्याख्यास्यते; तद्यथा- अङ्गम् , श्रुतस्कन्धः, अध्ययनम् , उद्देश इत्यादि । तत्रेदं सामायिकाध्ययनं किलाध्ययनोद्देशो भवति, न तूद्देशोद्देशः, उद्देशरहितत्वात् । एतच्च तत्र व्याख्यास्यते । तदत्रोदेश-निर्देशयोरष्टविधत्वभणनेन षष्ठं समासद्वारमायातम् । अनेन च समासद्वारेण विचार्यमाणेनेदमध्ययनमुद्देशरहितमिति ज्ञापितम् ।। एतच्चेहोद्देश-निर्देशाभणनेन निर्मूलस्य समासदारस्यैवाऽभावात् किल न ज्ञायतेति ॥ ९७९ ॥
एतच्च यत्किञ्चिदेव, इति दर्शयति
अंगाइपण्हकाले कालियसुयमाणसमवयारे य । तमणुद्देसयबद्ध भणियं चिय इह किमब्भहियं ॥ ९८० ॥ ___ 'आवश्यकं किमङ्गम् , अङ्गानि ?' इत्यादिप्रश्नकाल एव कालिकश्रुतपरिमाणसंख्यावतारे चाध्ययनसंख्यावतारात् , 'नोद्देशकः, नोद्देशकाः' इति निषेधाच्च तत् सामायिकाध्ययनमुद्देशकबद्धं न भवतीति भणितमेव, इह किमभ्यधिकमज्ञातं ज्ञायते । तस्माद् यत्किश्चिदेवेदम् । अत एतयोरिह भणनं व्याख्यानार्थमेवेति स्थितम् । तदेवं कृतोद्देश-निर्देशविषया चालना, प्रत्यवस्थानं च ॥९८० ॥ । अन्ये तु विशेषमिह भणन्ति नोदेशबदमेतदिति । ज्ञापितमध्ययनं समासद्वारावतारेण ॥ ९७९ ॥
॥४५७॥ '२ नाम स्थापना द्रव्ये क्षेत्रे काले समासोद्देशे । उद्देशोदेशे च भावे च भवत्यष्टमकः ॥1॥ ३ एवमेव च निर्देशः । ४ अङ्गादिनभकाले कालिकनुतमानसमवतारे च । तदनुद्देशकबद्धं भणितमेवेह किमभ्यधिकम् ? ॥ ५८० ॥
सावरकर
POSESPOOTOS