________________
विशेषा ०
॥४५६॥
Jain Educations Internationa
अज्झणं उद्देसोऽभिहियं सामाइयं ति निदेसो । सामण्ण-विसिद्धाणं अभिहाणं सत्य-नामानं ॥९७५॥
शास्त्रं च नाम च शास्त्र नामनी तयोः सामान्य विशिष्टयोः सामान्य विशेषभूतयोरोघनिष्पन्ने नामनिष्यन्ने च निक्षेपे यदभिधानमभिहितम्, तावुद्देश- निर्देशौ । यथासंख्येन चेह योजना, तद्यथा- सामान्यस्य शास्त्रस्योपनिष्पन्ननिक्षेपे यदध्ययनमित्यभिधानमभिहितं स उद्देश इत्युच्यते, नामनिष्पन्ने च निक्षेपे विशिष्टस्य नाम्नो यत् सामायिकमित्यभिधानमभिहितं स निर्देश इत्यभिधीयत इति ॥ ९७५ ॥ अथ प्रेरकः प्राह
दोरोवन्नासाइसु निक्खेवे ओह - नामनिफन्ने । उद्देसो निद्देसो भणिओ इह किं पुणग्गहणं ? ॥ ९७६ ॥
आह- नन्वसावावश्यकशास्त्रस्य प्रथममध्ययनं सामायिकम्, तस्य च चत्वार्यनुयोगद्वाराणि, इत्यादिना द्वारोपन्यासादिषु प्रक्रमेषुः यदिवा, ओघनिष्पन्न-नामनिष्पन्नयोर्निक्षेपयोः सामान्यनामरूप उद्देशः, विशेषनामरूपश्च निर्देशोऽनेकशः प्रोक्त एवः किमर्थमिहोपोद्धातनिर्युक्त पुनरपि तयोर्ग्रहणम् । इति ॥ ९७६ ॥
अत्रोत्तरमाह
इह विहियाणमणागयगहणं तत्थन्नहा कहं कुणउ । तेसिं गहणमकाउं दारन्नासाइकज्जाई ? ॥ ९७७ ॥ इहोपोद्घाते आद्यद्वारद्वयविहितयोरेवोद्देश-निर्देश योस्तत्र द्वारोपन्यासादौ शास्त्रकृताऽनागतमेव ग्रहणं कृतम्, अन्यथा हि तयोः सामान्य- विशेषनामरूपयोरुद्देश - निर्देशयोस्तत्र ग्रहणमकृत्वा कथं निराश्रयाणि द्वारोपन्यासादिकार्याणि करोतु । इति ।। ९७७ ।
प्रतिविधानान्तरमाह -
अहवा तत्थुसो निद्देसो वि य कओ इहं तेसिं । अत्थाणुगमावसरे विहाणवक्खाणमारद्धं ॥ ९७८ ॥
१ अध्ययनमुद्देशोऽभिहितं सामायिकमिति निर्देशः । सामान्य विशिष्टयोरभिधानं शास्त्र नाम्नोः ॥ ९७५ ॥ १२ द्वारोपन्यासादिषु निक्षेप ओघ नामनिष्पन्नयोः । उद्देशो निर्देशो भणित इह किं पुनर्ग्रहणम् ? ॥ ९७६ ॥ ३ इह विहितयोरनागतग्रहणं तत्रान्यथा कथं करोतु । तेषां ग्रहणमकृत्वा द्वारन्यासादिकार्याणि ? ॥ ९७७ ॥ ४ अथवा तत्रोद्देशो निर्देशोऽपि च कृत इह तयोः | अर्थानुगमावसरे विधानव्याख्यानमारब्धम् ॥ ९७८ ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
॥४५६॥
www.jainelibrary.org