________________
बृहद्वत्तिः ।
विशेषा० ॥४५५॥
ओघादीनां निक्षिप्तानां सतां सांपतमनुगमस्तव्याख्यानरूपः कार्य इत्यनुगमस्यावसरः। स च द्विविधः- नियुक्त्यनुगमः, सूत्रानुगमश्च ; छन्दोऽनुवृत्त्या च कयाचिदित्थं व्यत्ययोपन्यासः । इत्थं च पुनद्रष्टव्यः- सूत्रानुगमः, नियुक्त्यनुगमश्चेति । तथा चानुयोगद्वारेप्युक्तम्- "अणुगमे दुविहे पन्नत्ते, तं जहा- सुत्ताणुगमे, निज्जुत्तिअणुगमे य”। “निज्जुत्तिअणुगमे तिविहे पन्नत्ते,तं जहा-निक्खेवनिज्जुत्तिअणुगमे, उवग्यायनिज्जुत्तिअणुगमे, सुत्तप्फासियनिज्जुत्तिअणुगमे य" इति ॥ ९७१ ॥
एतदेव नियुक्तित्रैविध्यं भाष्यकारोऽप्याह
निज्जुत्ती तिविगप्पा नासो-वग्घाय-सुत्तवक्खाणं । निक्खेवस्साणुगया उद्देसाईहुवग्याओ ॥ ९७२ ॥ नियुक्तिस्त्रिविकल्पा त्रिभेदा। कथम् ?, इत्याह- 'नासो-वग्याय-सुत्तवक्खाणं ति' न्यासो नामादिनिक्षेपः, उपोद्धातः शास्त्रोत्पत्तिः, सूत्रं प्रतीतं, तेषां व्याख्यानम्-निक्षेपनियुक्तिः, उपोद्घातनियुक्तिः, सूत्रस्पर्शिकनियुक्तिश्चेत्यर्थः । तत्र निक्षेपनियुक्तिरनुगता- अनुक्राता, पूर्वमेवोक्तेति यावदिति, अत्रैव मागावश्यक-सामायिकादिपदानां नाम-स्थापनादिनिक्षेपद्वारेण यद् व्याख्यानं कृतं, तेन निक्षेपनियुक्तिरनुगता मोक्ता द्रष्टव्येत्यर्थः । उपोद्धातनियुक्तिस्तूदेश-निर्देशादिभिरैरवगन्तव्येति ॥ ९७२ ॥
तान्येवोद्देशादीनि द्वाराण्याह
उद्देसे निइसे य निग्गमे खेत्त काल पुरिसे य । कारण पच्चय लक्खण नए समोयारणाणुमए ॥ ९७३ ॥ किं कइविहं कस्स कहिं केसु कहं केच्चिरं हवइ कालं । कइ संतरमविरहियं भवा-गरिस-फोसणनिरुत्ती॥९७४॥ इदं गाथाद्वयमपि पुरस्ताद् विस्तरेण व्याख्यास्यते ॥ ९७३ ।। ९७४ ।। आक्षेप-परिहारौ तु यथासंभव केषुचिद् द्वारेष्वत्रापि विभणिषुः, उद्देश-निर्देशस्वरूपं तावदाह
RSSKOTA
१ अनुगमो द्विविधः प्रज्ञप्तः, तयधा-सूत्रानुगमः, नियुक्त्यनुगमश्च । २ नियुक्त्यनुगमविविधः प्रज्ञप्तः, तद्यथा-निक्षेपनियुक्त्यनुगमः, उपोदातनि
युक्त्यनुगमः, सूत्रस्पर्शिकनियुक्त्यनुगमश्च । ३ नियुक्तिस्विविकल्पा न्यासो-पोदात-सूत्रव्याख्यानम् । निक्षेपस्यानुगता उद्देशादिभिरुपोद्धातः ॥ ९७२ ॥ ४ उद्देशो निर्देशच निर्गम क्षेत्रः कालः पुरुषश्च । कारणं प्रत्ययो लक्षणं मयः समवतारणाऽनुमतः ॥ ९७३ ॥ किं कतिविधं कस्य कुन केषु कथं कियच्चिरं भवति कालम् । कति सान्तरमविरहितं भाव-ऽऽकर्ष-स्पर्शननिरुक्तिः ॥ ९७४ ॥
॥४५५॥