________________
विशेषा
॥४५४॥
अथ सूत्रालापकनिक्षेपस्याऽवसरः, तत्राहजो सुत्तपयन्नासो सो सुत्तालावयाण निक्खेवो । इह पत्तलक्खणो सो निक्खिप्पइ न पुण किं कज्जं? ॥९६८॥ बहदत्तिः। सुत्तं चेव न पावइ इह सुत्तालावयाण कोऽवसरो ? । सुत्ताणुगमे काहिइ तण्णासं लाघवनिमित्तं ॥९६९॥
'करेमि भन्ते ! सामाइयं' इत्यादिसूत्रपदानां यो नाम-स्थापनादिरूपेण न्यासः, स सूत्रालापकनिक्षेपः । स चेह प्राप्तलक्षणःप्राप्तावसर एव, न पुननिक्षिप्यते- न पुनः मूत्रालापक इदानीमेव निक्षिप्यत इति भावः । किं कार्य-कस्माद्धेतोः ?, इत्याह- सूत्रमेव तावदिदानी न पामोति, अतः सूत्रालापकानामिह निक्षेपे कर्तव्ये कोऽवसरः । इदमुक्तं भवति-मूत्रानुगम एव मूत्रमुच्चारयितव्यम्, उच्चारिते च सूत्रे तदालापकविभागः, तद्विभागे च तन्निक्षपः । अतः मूत्राभावात् कः मूत्रालापकानामिह निक्षेपेऽवसरः । तर्हि कदा तनिक्षेपो विधेयः १, इत्याह-मूत्रानुगमे प्राप्ते करिष्यति लाघवार्थ मूरिस्तन्निक्षेपमिति ।। ९६८ ।। ९६९ ॥
अथ पूर्वापरासंबद्धतामाशङ्कय परिहरति
ईह जइ पत्तो वि तओ न नस्सए कीस भण्णए इहई । दाइज्जइ सो निक्खेवमेत्तसामण्णओ नवरं ॥९७०॥
नन्विह प्राप्तावसरोऽपि यदि तकोऽसौ सूत्रालापकनिक्षेपो न न्यस्यते न विधीयते, तीन किमर्थ भण्यते-'मूत्रालापकनिक्षेपश्च' इत्येवं निक्षेपतृतीयभेदत्वेन किमर्थमिहोपन्यस्यते ?, अनुगमेऽपि किमिति न भण्यते ? इति भावः । सत्यम्, किन्त्वोघनिष्पन्नादिना निक्षेपेण सह निक्षेपमात्रसाम्यात् नवरं केवलं दर्यत एवाऽयमत्र, न तूपन्यस्यते, ग्रन्थगौरवभयात् ॥ इति चतुर्दशगाथार्थः ॥९७०॥
॥ इति निक्षेपः समाप्तः ॥ अथानुगमलक्षणं तृतीयमनुयोगद्वारं संबन्धोपदर्शनपूर्वकमाह*संपयमोहाईणं संनिक्खित्ताणमणुगमो कज्जो । सोऽणुगमो दुविगप्पो नेओ निज्जुत्ति-सुत्ताणं ॥९७१॥ १ यः सूत्रपदन्यासः स सूत्रालापकानां निक्षेपः । इह प्राप्तलक्षणः स निक्षिप्यते न पुनः किं कार्यम् ? ॥ ९६८ ॥
सूत्रमेव न प्राप्नोतीह सूत्रालापकानां कोऽवसरः । सूत्रानुगमे करिष्यति तन्यासं लाघवनिमित्तम् ॥ ९६९ ॥ २ करोमि भदन्त ! सामायिकम् । ४५४॥ ३ इह यदि प्राप्तोऽपि सको न न्यस्यते कस्माद् भण्यते इह ? । दयते स निक्षेपमात्रसामान्यतो नवरम् ॥ ५७० ॥ ४ सांप्रतमोघादीनां संनिक्षिप्तानामनुगमः कार्यः । सोऽनुगमो द्विविकल्पो ज्ञेयो नियुक्ति-सूत्रयोः ॥ ९७१ ॥