________________
विशेषा
॥४४६॥
द्रव्य-क्षेत्र काल-भावभेदाचतुर्विधं प्रमेयम् , प्रमेयचातुर्वैध्याच प्रमाणमपि चतुर्विधम्- द्रव्यप्रमाणम् , क्षेत्रप्रमाणम् , कालप्रमाणम् , भावप्रमाणं चेति, द्रव्यादिकं चतुर्विधं प्रमेयं प्रमीयतेऽनेनेति कृत्वा । तत्रेदं सामायिकाध्ययनं श्रुतज्ञानविशेषत्वेन जीवपर्यायत्वाज्जीवभावत्वाद् भावप्रमाणे समवतरति । आह- ननु भावप्रमाणमपि त्रिविधम्-गुणप्रमाणम् , नयप्रमाणम् , संख्याप्रमाणं चेति; तत्र सामायिकं क समवतरति ? इति । उच्यते-गुणप्रमाणे । ननु गुणप्रमाणमपि द्विविधम्- जीवगुणप्रमाणम् , अजीवगुणप्रमाणं च; तत्र सामायिकं क समवतरति ? इति । उच्यते- जीवानन्यत्वेन जीवगुणप्रमाणे । ननु जीवगुणोऽपि त्रिविधः-ज्ञान-दर्शन-चारित्रभेदात् । तत्र क सामायिकस्याऽवतारः१ । उच्यते- बोधात्मकत्वाद् ज्ञानगुणे । ननु ज्ञानमपि प्रत्यक्षा-ऽनुमानो-पमाना-ऽऽगमभेदाच्चतुर्विधम् , तत्र केदमवतरति ? इति । उच्यते-आगमे । ननु सोऽपि लौकिक-लोकोत्तरभेदाद् द्विविधः । लोकोत्तरोऽपि मूत्रा-र्थो-भयरूपित्वात् त्रिविध एव, तव केदं समवतरति ? इति । उच्यते सूत्रा-ऽर्थो-भयभेदात् त्रिविधेऽपि लोकोत्तर आगमे समवतरति, तत्स्वभावत्वात् तत्स्वरूपत्वादिति ॥ ९४६॥
एतदेवाह
जीवाणण्णत्तणओ जीवगुणे बोहभावओ नाणे । लोउत्तरसुत्तत्थोभयागमे तस्सभावाओ ॥ ९४७ ॥ व्याख्याताथैव ॥ ९४७॥ आह- नन्वात्मागमा-ऽनन्तरागम-परम्परागमभेदतोऽपि लोकोत्तरागमस्त्रिविधः, तत् क्वेदमवतरति ?, इत्याशङ्कयाह
सुयओ गणहारीणं तस्सिस्साणं तहाऽवसेसाणं । एवं अत्ता-णंतर-परंपरागमपमाणम्मि ॥ ९४८ ॥
अत्थेण उ तित्थंकर-गणहर-सेसाणमेवमेवेदं । यथा जीवगुणादिष्वस्यावतारः, एवमात्मा-ऽनन्तर-परम्परागमप्रमाणेऽप्यवतारो मन्तव्यः । कथम् ?, इत्याह-मूत्रतो गणधरा
जीवानन्यत्वतो जीवगुणे बोधभावतो ज्ञाने । लोकोत्तरसूत्रार्थोभयागमे तस्वभावात् ॥ ९४७ ।। श्रुततो गणधारिणां तच्छिष्याणां तथावशेषाणाम् । एवमात्माऽनन्तर-परम्परागमप्रमाणे ॥ ९५८॥ अर्थेन तु तीर्थकर-गणधर-शेषाणामेवमेवेदम् ।
मारासस
Jan Education Internation
For Personal and Private Use Only
www.jaineltrary.ary