SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ be विशेषा. बृहद्वत्तिः । ॥४४५॥ अत्राप्याद्यभङ्गस्याऽनुपूर्वीत्वात् , अन्तिमस्य च पश्चानुपूर्वीत्वाद् मध्यमा एव चत्वारो भङ्गा अनानुपूर्वीत्वेन मन्तव्याः । एवं चतु-पञ्च-षट्-सप्तादीनामपि पदानामनया दिशा भङ्गकाः समानेतव्याः। तदेवं संक्षेपत उक्ता आनुपूर्व्यः, विस्तरतस्त्विमा वक्ष्यमाणाश्च ना- मादिभेदा अनुयोगद्वारेभ्योऽवसेया इति ॥ ९४३ ।। अथ संक्षेपतो नाम विचारयन्नाह जं वत्थुणोऽभिहाणं पज्जयभेयाणुसारि तं नामं । पइभेयं जं नमए पइभेयं जाइ जं भणियं ॥ ९४४ ॥ यज्जीवादिवस्तुनोऽभिधानं तद् नामेति संबन्धः । कथंभूतम् ?, इत्याह- पर्याया ज्ञान-दर्शन-चारित्र-रूप-रस-गन्ध-स्पर्श-नव-पुराणादयस्तेषां भेदा नानाविधस्वभावास्तांस्तद्वाचकत्वेनाऽनुसरतीति पर्यायभेदानुसारि नामेति । किमुक्तं भवति ?, इत्याशङ्कय तात्पर्यमाह- 'पइभेयमित्यादि' 'णम प्रहत्वे' प्रतिपर्यायभेदं यद् नमति याति तद्वाचकत्वेन परिणमति प्रवीभवति तद् नामेति यद् भणितं भवति, इत्येतत् तात्पर्यमित्यर्थ इति ॥ ९४४ ॥ एतच्च नाम द्विनाम-त्रिनामयाबद्दशनामभेदाद् दशभेदम् , समस्ताभिलाप्यवस्तुविषयत्वाद् बहुभेदं चाऽनुयोगद्वारेपूक्तम् । तत्र पद्नान्नि क्षायोपशमिके भावे सामायिकस्याऽध्ययनस्यावतार इति दर्शयन्नाह छव्विहनामे भावे खओवसमिए सुयं समोयरइ । जं सुयनाणावरणखओवसमजं तयं सव्वं ॥ ९४५ ॥ अनुयोगद्वाराध्ययने षड्नाम्न्यौदयिकादयः षड् भावाः पठ्यन्ते । तत्र च क्षायोपशमिके भावे सर्वमप्याचारादि श्रुतं समवतरति, यद् यस्मात् सर्वमपि तत् श्रुतं श्रुतज्ञानावरणकर्मक्षयोपशमादेव जायते, नान्यतः, तस्मात् क्षायोपशमिक एवं भावे समवतरति । अत इदं सामायिकाध्ययनमपि श्रुतविशेषरूपत्वात् क्षायोपशमिक एव भावे समवतरति, नान्यत्रेत्यर्थादुक्तं भवति । इत्युक्तं संक्षेपतो नाम।।९४५॥ सांप्रतं प्रमाणमभिधित्सुराहदेवाइचउब्भेयं पमीयए जेण तं पमाणं ति । इदमज्झयणं भावो त्तिं भावमाणे समोयरइ ॥ ९४६ ॥ । यद् वस्तुनोऽभिधानं पर्यायभेदानुसारि तद् नाम । प्रतिभेदं यद् नमति प्रतिभेदं याति यद् भाणितम् ॥ ९४४ ॥ २ पविधनानि भावे क्षायोपशमिके श्रुतं समवतरति । यत् श्रुतज्ञानावरणक्षयोपशम तत् सर्वम् ॥ ९४५ ॥ ३ नच्यादिचतुर्भेदं प्रमीयते येन तत् प्रमाणमिति । इदमध्ययनं भाव इति भावमाने समवतरति ॥ ९४५ ॥ ॥४५॥ PRESS Jan Education interna For Personal and Private Use Only IPA ww.jaineltrary.ary
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy