SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ विशेषा. बृहदा ॥४४४॥ भावार्थस्तु दिङमात्रदर्शनार्थ सुखाधिगमाय च दर्शन-ज्ञान-चारित्रादीनि त्रीणि पदान्याश्रित्य तावद् दर्यते-- तस्य चैक-द्वित्रिलक्षणस्य पदत्रयस्य परस्पराभ्यासे सामान्येन सर्वेऽपि षड् भङ्गा भवन्ति । विशेषतस्तु त एवमानीयन्ते- पूर्वानुपूर्वीलक्षणस्तावत् प्रथ- | मो भङ्गः, तद्यथा- १।२।३ । अस्याश्च पूर्वानुपूर्व्या अधस्ताद् भङ्गकरचने क्रियमाणे एकस्य तावज्ज्येष्ठ एव नास्ति, द्विकस्य तु विद्यते एकका, स तदधस्ताद् निक्षिप्यते, तस्य चाग्रतः 'उबरिमतुलं पुरओ नसेज्ज' इतिवचनात् त्रिको न्यस्यते, पृष्ठतस्तु स्थापितशेषो द्विको दीयते, ततोऽयं द्वितीयो भङ्गः संपद्यते-२।१।३ । अत्र च द्विकस्य विद्यत एकको ज्येष्ठः, परं नासौ तदधस्ताद् निक्षिप्यते, अग्रतः सदृशाङ्कपातेन समयभेदप्रसङ्गात् । एककस्य तु ज्येष्ठ एव नास्ति, त्रिकस्य तु विद्यते द्विको ज्येष्ठा, स तदधस्ताद् न्यस्यते, अत्र चाग्रभागस्य तावदसंभव एव, पृष्ठतस्तु स्थापितशेषावकक-त्रिको क्रमेण स्थाप्यते 'पुब्बक्कमो सेसो' इति वचनात् । ततस्तृतीयो भङ्गः संजायते-१।३ । २ । अत्राप्येककस्य ज्येष्ठ एव नास्ति, त्रिकस्य तु ज्येष्ठोऽस्ति द्विकः, न च तदधस्ताद् निक्षिप्यते, अग्रे सदृशाङ्कपातेन समयभेदापत्तेः, ततोऽस्यैवानुज्येष्ठ एककः स्थाप्यते, अग्रतस्तु द्विको दीयते 'उपरिमतुल्लं' इत्यादिवचनात् , | पृष्ठतस्तु स्थापितशेषस्त्रिको व्यवस्थाप्यत इति चतुर्थो भङ्गः-३।१।२। अत्र त्रिकस्य विद्यते द्विको ज्येष्ठः, एककश्चानुज्येष्ठः, परं तौ तदधस्ताद् न निक्षिप्येते, पुरतस्तुल्याङ्कपातेन समयभेदमाप्तः, एककस्य तु ज्येष्ठ एव नास्ति, द्विकस्य त्वस्त्येकको ज्येष्ठः स | तदधस्ताद् न्यस्यते, तत्पृष्ठतस्तु स्थापितशेषौ दिक-त्रिको क्रमशः स्थाप्येते इति पञ्चमो भङ्गः-२ । ३ । १। अत्र द्विकस्याऽस्त्येकको ज्येष्ठः, किन्त्वसौ तदधस्वाद् न निक्षिप्यते, पुरतः सदृशाङ्कभ्यासापच्या समयभेदप्रसङ्गात् । त्रिकस्य तु द्विको ज्येष्ठः, स तदधस्ताद् निक्षिप्यते, अग्रतस्त्वेकको दीयते, 'उवरिमतुल्लं' इति वचनात् ; पृष्ठतस्तु स्थापितशेषत्रिका स्थाप्यत इति षष्ठो भङ्गः । एषां च पण्णामपि भङ्गानामियं स्थापना AccordPOCSONG CRETO १।२।३। २।१।३। १।३।२। ३।१।२। २।३।१। ३।२।१। ॥४४४॥ For Posod es Only
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy