________________
विशेषा
॥४४३॥
गुणितो जाताः पर्द, तैश्च चत्वारो गुणिताः संजाताश्चतुर्विंशतिः, तया च पश्चाभ्यस्ता जातं विशं शतम् । तेन च पंगुणिताः संपमानि विंशतिसप्तभङ्गकशतानि । इह च प्रथमभङ्गः पूर्वानुपूर्वीरूपः, चरमभङ्गस्तु पश्चानुपूर्व्यात्मकः, अतस्तदपनयनेऽष्टादशोत्तराणि सप्त शतानि सामान्येन सर्वसंख्यारूपमनानुपूर्वीभङ्गकपरिमाणं भवति । एवं सप्तादीनामप्यनन्तपर्यन्तानां पदानामयमेव सामान्येन सर्वभङ्गकसंख्यानयनोपाय इति ॥ ९४२॥
अथ विशेषतोऽनानुपूर्वीभङ्गकानामानयनोपायभूतां करणगाथामाह
पुव्वाणुपुब्विहेट्ठा समयाभेएण कुण जहाजेठं । उवरिमतुल्लं पुरओ नसेज पुव्वक्कमो सेसो ॥ ९४३ ॥
इह विवक्षितपदानां क्रमेण स्थापना पूर्वानुपूर्वीत्युच्यते, तस्या 'हेट त्ति' अधस्ताद् द्वितीयादिभङ्गकान् जिज्ञासुः 'कुण त्ति | स्थापय 'एकादिपदानि' इति शेषः । कथम् , इत्याह- ज्येष्ठस्यानतिक्रमेण यथाज्येष्ठं यो यस्यादौ स तस्य ज्येष्ठो यथा- द्विकस्यैकको ज्येष्ठः, त्रिकस्य त्वयमनुज्येष्ठः, चतुष्कादीनां त्वेकोऽपि ज्येष्ठानुज्येष्ठः, एवं त्रिकस्य द्विको ज्येष्ठः, स एव चतुष्कस्यानुज्येष्ठः, पश्चकादीनां तु स एव ज्येष्ठानुज्येष्ठ इत्यादि । एवं च सत्युपरितनाङ्कस्याधस्ताज्ज्येष्ठो निक्षिप्यते, तत्रालभ्यमानेऽनुज्येष्ठः, तत्राप्यलभ्यमाने ज्येष्ठानुज्येष्ठः, इति यथाजेष्ठं निक्षेपं कुरु । किमनियमेन ?, न, इत्याह- समयाभेदेनेति, समयः संकेतः प्रस्तुतभकरचनव्यवस्था, तस्या अभेदोऽनतिक्रमस्तेन समयाभेदेन निक्षेपं कुरु । समयस्य च भेदस्तदा भवति, यदा तस्मिन्नेव भङ्गके निक्षिप्ताङ्कसदृशोऽपरोऽङ्कः पतति । तत एवंभूतं समयभेदं वर्जयन्नेव ज्येष्ठाद्यङ्कनिक्षेपं विदध्यात् , उक्तं च
__“जहिम्मि य निक्खेत्ते पुणरबि सो चेव होइ कायव्यो । सो होइ समयभेओ बजेयव्वो पयत्तेण ॥१॥"
निक्षिप्तस्य चाकस्य यथासंभवं 'पुरओ त्ति' अग्रत उपरितनाङ्कस्तुल्यं सदृशं यथा भवति, एवं न्यस्येत्-उपरितनाङ्कसदृशानेवाकान् पुरतः स्थापयेदित्यर्थः । 'पुब्बक्कमो सेस त्ति' निक्षिप्ताङ्कस्य यथासंभवं पृष्ठतः शेष उद्वरितशेषाङ्कानामधस्तात् तानेवोद्वारतशेषानङ्कान् पूर्वक्रमेण स्थापयदित्यर्थः । यः संख्यया लघुरेककादिः स प्रथम स्थाप्यते, यस्तु तया महान् स पश्चात् स्थाप्यत इति पूर्वक्रमः, पूर्वानुपूर्वीलक्षणे प्रथमभङ्गके इत्थमेव दृष्टत्वादिति भावः ॥ इति गाथार्थः ।। १ क.स.ग. 'ट्षभिश्चत्वा' । १ घ.छ, 'षट्ताडिताः' । ३ पूर्वानुपूर्व्यधस्तात् समयाभेदेन कुरु यथाज्येष्ठम् । उपरिमतुल्यं पुरतो न्यस्पेत् पूर्वक्रमः शेषः ॥ ९४३॥
। यमिश्च निक्षिप्त पुनरपि स एव भवति कर्तव्यः । स भवति समयभेदो वर्जितच्या प्रयत्नेन ॥1॥
|॥४४३॥
For Personal and
Use Only