________________
PURN
GA
विशेषा०
॥४४॥
समाधानान्तरमाह
अहवोवक्कमसामण्णओ मया पगयनिरुवओगा वि । अण्णत्थ सोवओगा एवं चिय सम्वनिक्खेवो ॥९३८॥ बृहद्वृत्तिः ।
यदिवा, प्रकृने प्रस्तुते निरुपयोगाः प्रकृतनिरुपयोगाः, एवंभूता अपि सन्तो नाम-स्थापना-द्रव्याापक्रमा उपक्रमसामान्यतोत्र मता उपन्यस्ताः। कुतः?, इत्याह- अन्यत्र स्थानान्तरे सोपयोगा इति कृत्वा, न केवलमत्रैवाऽसौ न्यायः, किन्त्वत्र शास्त्रे, अन्येषु वा शाखेषु ये केचन बहुप्रकारा नामादिनिक्षेपास्तेषां सर्वेषामप्यपरसमाधानाभावे इदमेव समाधानं वाच्यमिति । तदेवं नामादिभेदैर्दर्शितमुपक्रमस्य षड्विधत्वम् ।। ९३८॥
यदिवा, अन्यथैवाऽयमुपक्रमः पविध इति दिदर्शयिषुः प्रस्तावनामाह
गुरुभावोवक्कमणं कयमज्झयणस्स छब्बिहमियाणिं । तत्थणुपुब्वाईसुं इदमज्झयणं समोयारे ॥ ९३९ ॥
तदेवं नामादिभेदैः षविधे उपक्रमे विचार्यमाणे कृतं गुरुभावोपक्रमणम् । तत्करणे च दर्शितमेकन प्रकारेणोपक्रमस्य षड्विधत्वम् । इदानीं प्रकारान्तरेण प्रस्तुतस्य सामायिकाध्ययनस्य पड्विधमुपक्रमणमुच्यते- आनुपूर्वी-नाम-प्रमाण-वक्तव्यता-ऽर्थाधिकारसमवतारभेदात् षविध उपक्रमोऽभिधीयत इत्यर्थः। अत एवाह-आनुपूर्व्यादिषु पञ्चमूपक्रमद्वारभेदेषु षष्ठे समवतारद्वारभेदे विचार्यमाण इदं सामायिकाध्ययनं समवतारयेत् । ततश्चानुपूर्व्यादिभेदेन षविध उपक्रमोऽभिहितो भवति । इत्यष्टादशगाथार्थः ॥ ९३९ ॥
तत्रानुपूर्वीलक्षणे प्रथमोपक्रमभेदेऽस्य सामायिकाध्ययनस्यावतारं चिन्तयितुमाह__अणुपुब्बिसमोयारो कज्जो सामाइयस्स संभवओ। नियमावतारणं पुण कित्तण-गणणाणुपुब्बीसु ॥९४०॥
आनुपूर्ध्या तावदस्य सामायिकाध्ययनस्य समवतारः संभवतो यत्र यत्रानुपूर्वीभेदे समवतारः संभवति, तत्र तत्रासौ कर्तव्यः । आह- ननु , अथवोपकमसामान्यतो मताः प्रकृतनिरुपयोगा अपि । अन्यत्र सोपयोगा एवमेव सर्वनिक्षेपः ॥ ९३८ ॥ १ घ.छ, 'मत्रओं'।
॥४४ ३ गुरुभावोपक्रमणं कृतमध्ययनस्य पद्विधमिदानीम् । तत्रानुपादिषु इदमध्ययनं समवतारयेत् ॥ ९१९॥ ४ आनुपूर्वांसमवतारः कार्यः सामायिकस्य संभवतः । नियमादवतारणं पुनरुत्कीर्तन-गणनानुपयोंः ॥ ९४०॥
५६
Jan Education Intematon
For Dev
enty