________________
॥४४०॥
अभिधाय च निर्गतः। ततो गतश्च गङ्गायाम् , निरीक्षिता चासौ स्वयम् , पृष्टा च परेभ्यः, शुष्कतृणादिवहनेन चान्वय-व्यतिरेकाभ्यां तस्याः पूर्वाभिमुखवाहित्वं निश्चित्य निवेदितमागत्य गुरुभ्यः- इत्थमित्थं च निश्चिता मया पूर्वाभिमुखी वहति गङ्गा, तत्वं तु गुरवो विदन्ति । प्रच्छन्नहेरिकेण चास्यापि संबन्धिनी चेष्टा सर्वापि राजे निवेदिता। ततश्चाभ्युपगतं सहर्षेण राज्ञा गुरुवचनमिति ।। ९३२ ॥ ९३३ ॥ ९३४ ॥
तदेवं गुरुभावोपक्रमे युक्ततयात्र व्यवस्थापिते सति परः पाह
जुत्तं गुरुमयगहणं को सेसोवक्कमोवओगोऽत्थ ? । गुरुचित्तपसायत्थं ते वि जहाजोगमाओजा ॥ ९३५॥
ननूक्तन्यायेन युक्तं तर्हि गुरुमतग्रहणं- गुरुभावोपक्रमणम् , शेषाणां तु नाम-स्थापना-द्रव्याशुपक्रमाणां क इहोपयोगः, येन तेऽप्युपन्यस्ताः । अत्रोत्तरमाह-ननु गुरुचित्तप्रसादनार्थ तेऽपि शेषोपक्रमा यथायोगं यथाप्रस्तावमायोज्याः सप्रयोजनत्वेनाऽभ्यूह्या इति ।। ९३५॥
तदेवं द्रव्याधुपक्रमाणां गुरुचित्तप्रसादनोपयोगित्वमाहपरिकम्म-नासणाओ देसे काले य जा जहा जोग्गा। ताओ दवाईणं कज्जाहाराइकजेसु ॥ ९३६ ॥
उवहियजोग्गदव्वो देसे काले परेण विणएणं । चित्तण्णू अणुकूलो सीसो सम्मं सुयं लहइ ॥ ९३७ ॥
याः काश्चिद् देशे मरुमण्डलादौ, काले ग्रीष्मादौ येन केनचित् प्रकारेण योग्या उचिताः परिकर्म-नाशनाः परिकर्म-विनाशा भवन्ति, ता द्रव्य-क्षेत्र-कालानां गुरोराहारादिकार्येषु शिष्येण तच्चित्तप्रसादनार्थ कर्तव्याः । तत्र द्रव्यस्य दधि-क्षीर-नीरादेर्गुड-शुण्ठ्युशीर-मुस्तादिक्षेपेण परिकर्म भावनीयम् । क्षेत्रस्योपाश्रयादेरुपलेपनादिना । कालस्य मुहूर्तादेः शिक्षकदीक्षादौ घटिकादिनेति । विनाशोऽपि द्रव्यादीनां द्रव्यान्तरसंयोगादिना भावनीय इति । तत इत्थं गुरुचित्तं प्रसादयन् शिष्यः किमामोति?, इत्याह- 'उवहिएत्यादि' उपहितानि गुरोराहाराद्यर्थ दौकितानि कृतपरिकर्माणि योग्याऽशन-पान-वस्त्र-पात्रौ पधादीनि द्रव्याणि येन, असावुपहितयोग्यद्रव्यः शिष्यः । शेषं सुगमम् ।। ९३६ ॥ ९३७ ।।
, युक्तं गुरुमतग्रहणं कः शेषोपक्रमोपयोगोऽत्र ! । गुरुचित्तप्रसादार्थ तेऽपि यथायोगमायोज्याः ॥ ९३५ ॥ २ परिकर्म-नाशना देशे काले च या यथा योग्याः । ता इण्यादीनां कार्या आहारादिकार्येषु ॥ ९३६॥ उपहितयोग्यग्यो देशे काले परेण विनयेन । चित्तज्ञोऽनुकूलः शिष्यः सम्यक् श्रुतं लभते ॥ ९३७॥ ३ क. ग. 'म प्र'।
॥४४॥
For Pesona Pe User