________________
॥४३९॥
आगारिंगियकुसलं जइ सेयं वायसं वए पुज्जा । तहवि य सिं न विकूडे विरहम्मि य कारणं पुच्छे ॥९३३ विशेषा०
निवपुच्छिएण गुरुणा भणिओ गंगा कओमुही वहइ । संपाइयवं सीसो जह तह सव्वत्थ कायव्वं ॥९३४॥ वृहद्वत्तिः।
तिस्रोऽपि सुगमाः, नवरं प्रथमगाथायां 'करणेत्यादि' करणं गुर्वादिष्टस्य संपादनम् , विनयोऽभिमुखगमना-ऽऽसनप्रदान-पर्युपास्त्य-ऽञ्जलिबद्धानुव्रजनादिलक्षणः, अनुवृत्तिस्त्विनितादिना गुरुचित्तं विज्ञाय तदानुकूल्ये प्रवृत्तिः, ताभिः । द्वितीयगाथायामाकारेडितकुशलं शिष्यं प्रति यदि श्वेतं वायसं पूज्या गुरवो वदेयुः, तथापि 'सिं ति' तेषां संवन्धि वचो न विकूटयेद् न प्रतिहन्यात् । विरहे च तद्विषयं कारणं पृच्छेदिति ।
नृपपृष्टेन गुरुणा भणितो 'गङ्गा केन मुखेन वहति ?' । ततो यथा सर्वमपि गुरुभणितं शिष्यः संपादितवान् , तथा सर्वत्र सर्वप्रयोजनेषु कार्यम् । इति तृतीयगाथाऽक्षरार्थः । भावार्थस्तु कथानकेनोच्यते- कन्यकुब्जे पुरे केनचिद् राज्ञा मूरिणा सह गोष्ठीप्रवन्धे प्रोक्तम्- राजपुत्रा विनीताः। मूरिणा तूक्तम्- साधवः। ततो विवादे मूरिणाऽभ्यवायि- युष्मदीयः सर्वोत्कृष्टविनयगुणो राजपुत्र: परीक्ष्यते, अस्मदीयस्त्वविनीतो भवतां यः प्रतिभाति स एव साधुः परीक्ष्यते । ततोऽभ्युपेतं राज्ञा । समादिष्टश्चातिविनीततया प्रसिद्धो राजपुत्रः- 'कुतोमुखी गङ्गा वहति ?' इति शोधय । तेनोक्तम्- किमिह शोधनीयम् ?, बालानामपि प्रतीतमेवेदम्- 'पूर्वाभिमुखी गङ्गा प्रवहति' इति । राज्ञा प्रोक्तम्- किमित्यत्रापि वितण्डावादं करोषि ?, गत्वा निरीक्षस्व तावत् । ततो हृद्ययावान् वहिः संवृतिं कृत्वा महता कष्टेन ततः प्रदेशाद् निर्गतः । सिंहद्वारे च निर्गच्छन् पृष्टः केनापि मित्रेण- भद्र! क गन्तव्यम् । ततोऽमूयया प्रोक्तम्- अ
रण्ये रोझानां लवणदानार्थम् । ततो मित्रेणोक्तम्- कोऽयं व्यतिकरः । राजपुत्रेण सर्वमपि राजादिष्टं निवेदितम् । मित्रेणोक्तम्- यदि PM राज्ञो ग्रहः संलग्नः, तत् किं तवापि, गत्वा निवेदय-'निरीक्षिता मया गङ्गा, पूर्वाभिमुखी वहति' इति । तथैवानुष्ठितं राजपुत्रेण ।
प्रच्छन्नहेरिकेण च निवेदितं राज्ञस्तच्चेष्टितम् । ततो विलक्षण राज्ञा प्रोक्तम्-भव्यम् , साधुरपि परीक्ष्यतां तावत् । ततो यः कश्चिदविनीतो
राज्ञा लक्षितस्तद्विषये परीक्षाप्रतिपादितेन गुरुणा भणितः शिष्यः-गत्वा निरीक्षख, 'केन मुखेन गङ्गा वहति ?' इति । ततः 'पूर्वाभिमुखी - सात्र वहति, इति गुरवो विदन्त्येव, परं कारणेन केनाप्यत्र भवितव्यम्' इति चेतसि निश्चित्य प्रोक्तं तेन- 'इच्छाम्यादेशम् ' इति ।
, आकारे-ङ्गितकुशलं यदि श्वेतं वायसं वदेयुः पूज्याः । तथापि च तेषां न विकूटयेद् विरहे च कारणं पृच्छेत् ॥ ९३३ ॥
तृपपृष्टेन गुरुणा भणितो गका कुतोमुखी वहति । । संपादितवान् शिष्यो यथा तथा सर्वत्र कर्तव्यम् ॥ १३ ॥
॥४३॥
SCAPE