________________
का
विशेषा०
बृहद्धत्तिः ।
॥४३८॥
इह यच्छिष्यः स्वहितार्थ श्रुताध्ययनादिहेतोः प्रशस्तमनाः शुभहेतुत्वात् श्रुतं गुरुभावमुपक्रामति- इङ्गिताकारादिना जानाति, स मोक्षफलत्वात् प्रशस्तभावोपक्रमः । तेनैव चेहाधिकारः, मोक्षार्थत्वादेव सर्वस्याऽस्य प्रारम्भस्येति ॥ ९२९ ।।
अत्र परः प्राह
को वक्खाणावसरे गुरुचित्तोवकमाहिगारोऽयं ? । भण्णइ वक्खाणंगं गुरुचित्तोवक्कमो पढमं ॥ ९३० ॥
नन्वावश्यकस्यानुयोगो व्याख्यानमिह प्रक्रान्तम् , ततस्तदवसरे प्रस्तुते कोऽयमप्रस्तुतेन गुरुचित्तोपक्रमेणाधिकारः । अत्रोत्तरमाह- 'भण्णईत्यादि' भण्यतेऽत्र प्रतिविधानम् , यद् व्याख्यानमिह प्रस्तुतं भवता गीयते, तद् गुरुचित्तायत्तमेव । ततश्च गुरुचित्तोपक्रमः प्रथममेव व्याख्यानस्याङ्गं कारणम् , कारणमन्तरेण च कार्यस्याभावात् तस्मिन् प्रकृते तत्कारणस्याधिकाराभिधानं न किश्चिदप्रस्तुतमिति ॥ ९३०॥
न केवलं गुरुचित्तोपक्रमः प्रथमं व्याख्यानम् , किन्तु यानि कानिचित् सामान्येन शास्त्राापक्रम-पुस्तको-पाश्रया-ऽऽहार-वस्त्रपात्र-सहायादीनि व्याख्यानाङ्गानि, तानि सर्वाण्यपि गुरुचित्तायत्तानि यतो वर्तन्ते, तस्माद् यथा गुरुचित्तं सुप्रसन्नं भवति, तथा कार्यम् , इति दर्शयन्नाह
गुरुचित्तायत्ताई वक्खाणंगाई जेण सव्वाई । तो जेण सुप्पसन्नं होइ तयं तं तहा कजं ॥ ९३१॥
गताथैव, नवरं गुरुचित्तं च तदा सुप्रसन्नं भवति, यदेङ्गिताकाराद्यभिज्ञः शिष्यस्तदुपक्रमानुकूल्येन प्रवर्तते । अतो न गुरुचित्तोपक्रमोऽत्राऽप्रस्तुत इति भावः ॥ ९३१ ॥
गुरुचित्तप्रसादनोपायानेवाह
जो जेण पगारेणं तुस्सइ करण-विणया-ऽणुवत्तीहिं । आराहणाए मग्गो सो च्चिय अव्वाहओ तस्स ॥९३२॥
१ को व्याख्यानावसरे गुरुचित्तोपक्रमाधिकारोऽयम् ? । भव्यते व्याख्यानाझं गुरुचित्तोपक्रमः प्रथमम् ॥ ९३०॥ २ गुरुचित्तायसानि व्याख्यानाङ्गानि येन सर्वाणि । ततो येन सुप्रसन्नं भवति तत् तत् तथा कार्यम् ॥ ९३१ ॥
यो येन प्रकारेण तुष्यत्ति करण-विनया-ऽनुवृत्तिभिः । आराधनाया मार्गः स एवाऽण्याहतस्तस्य ॥ ९३२ ॥
॥४३८॥
Real
For Personal and Private Use Only
www.jaineltrary.org