SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥४३७|| तृतीययापि मातृशिक्षितया दुहित्रा तथैव प्रहतः स्वभर्ता । केवलमेतेनोच्छलदतुच्छकोपेन 'नूनमकुलीना त्वम् , येनैवं विशिष्टजनानुचितं विचेष्टसे' इत्याद्यभिधाय गाढं कुट्टायित्वा निष्कासिता गृहात् । तया च गत्वा सर्व मात्रे निवेदितम् । ततस्तया विज्ञातजामातृस्वभावया | तत्समीपं गत्वा 'वत्स ! कुलस्थितिरियमस्माकं यदुत-प्रथमसमागमे वध्वा वरस्येत्थं विधातव्यम्' इत्यादि किश्चिदभिधाय कथमप्युपनीताऽसौ । दुहिता च प्रोक्ता- वत्से! दुराराधस्ते भर्ता भविष्यति, परमदेवतावदप्रमत्ततया समाराधनीयः । इति ब्राह्मणीदृष्टान्तः। अथ गणिकादृष्टान्त उच्यते- एकस्मिन् नगरे चतुःषष्टिविज्ञानसहिता देवदत्ताभिधाना रूपादिगुणवती वेश्या परिवसति । तया च भुजङ्गजनाभिप्रायपरिज्ञानार्थ स्वस्वव्यापारं कुर्वत्यः सर्वा अपि राजपुत्रादिजातयो रतिभवनभित्तिषु चित्रकर्मणि लेखिताः। तत्र यः कश्चिद् राजपुत्रादिरागच्छति, स यत्र यत्र कृताभ्यासस्तत् तदेव चित्रलिखितं दृष्ट्वाऽत्यर्थं प्रशंसति । ततोऽसौ विलासिनी। राजपुत्रादीनामन्यतरत्वेन निश्चित्य यथौचित्येनोपचरति । आनुकूल्येनोपचरिताश्च राजपुत्रादयस्तस्यै प्रचुरमर्थजातं प्रयच्छन्ति । इति गणिकादृष्टान्तः। अथामात्यदृष्टान्तोऽभिधीयते- एकस्मिन् नगरे कश्चिद् राजाऽमात्येन सहाऽश्ववाहनिकायां निर्गतः। तत्र च पथि गच्छता राजतुरङ्गमेन कचित् खिलप्रदेशे प्रस्रवणमकारि । तच्च तत्पदेशपृथिव्याः स्थिरत्वेन बद्धच्छिल्लरकं चिरेणाप्यशुष्कं व्यावर्तमानो राजा तथैव व्यवस्थितमद्राक्षीत् । चिरावस्थायिजल: शोभनोऽत्र प्रदेशे तडागो भवतीति विचिन्तयंश्चिरमवलोकितवास्तदिति । ततश्चेङ्गिताकारकुशलतया विदिततदभिप्रायेणाऽमात्येन राजादेशमन्तरेणापि खानितं तत्र प्रदेशे महत् सरः । तत्पाल्यां च रोपिताः सर्वर्तुकपुष्पफलसमृद्धयो नानाजातीयतरुनिवहाः । अन्यदा च तेनैव प्रदेशेन गच्छता भूपालेन दृष्टम्, पृष्टं च- अहो ! मानससरोवरवद् रमणीयं केनेदं खानितं सरः । अमात्यो जगाद-देव! भवद्भिरेव । राजा सविस्मयं प्राह, कथं कश्च कदा मयैतत्कारणाय निरूपितः? इति । ततः सचिवो यथावृत्तं सर्वमपि कथितवान् । 'अहो! परचित्तोपलक्षकत्वममात्यस्य' इति विचिन्त्य परितुष्टो राजा तस्य वृत्तिवर्धनादिना प्रसादं चकार । तदेवमादिकः संसारफलोऽपरोऽप्यप्रशस्तभावोपक्रमः स्वयमभ्यूह्य इति ॥९२८॥ अथ प्रशस्तभावोपक्रममाह सीसो गुरुणो भावं जमुवक्कमए सुयं पसत्थमणो । सहियत्थं, स पसत्थो इह भावोवक्कमोऽहिगओ ॥९२९॥ १ क, ग. 'वं शि' । २ क. न. ग. 'महास' । ३ शिष्यो गुरोर्भावं यदुपनमते श्रुतं प्रशस्तमनाः । स्वहितार्थ, स प्रशस्त इह भावोपक्रमोऽधिकृतः ॥ ९२९ ॥ ॥४३७॥ Jan Education Inter For Personal and Private Use Only AAMwww.jaineltrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy