SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥४३६॥ Jain Education International छायाए नालियाए च परिकम्मं से जहत्थविण्णाणं । रिक्खाइचारेहिं च तस्स विणासो विवज्जासो ॥ ९२७॥ 'से' तस्य समयाssवलिका घटिका मुहूर्तादिलक्षणस्य कालस्येदमेव परिकर्म । यत्, किम् ?, इत्याह- यद् यथार्थविज्ञानं यथावत् परिज्ञानम् । कया ?, इत्याह- शङ्कादिप्रतिच्छायारूपया छायया, घटिकारूपया च नाडिकया। विनाशस्तर्हि तस्य कः १, इत्याह- विपर्यासो वैपरीत्यभवनम् - अनिष्टफलदायकतया परिणमनमित्यर्थः । कैः, इत्याह- ऋक्ष ग्रहादिचारैः तथा च वक्तारो भवन्ति - 'अमुकेन नक्षत्रेण, अमुकेन ग्रहेण चेत्थमित्थं च गच्छता विनाशितः कालः' इति । उक्तः कालोपक्रमः ।। ९२७ ॥ अथ भावोपक्रममाह - जें पर हिययाक्यावधारणमुवक्कमो स भावस्स । तस्सासुभस्स मरुइणि गणिया मच्चादओऽभिहिया ॥ ९२८॥ इह यदिङ्गिताकारादिना परहृदयाकृतस्य परकीयभावस्याऽवधारणं परिज्ञानं स सामान्येन भावोपक्रमः । स च विशेषितो द्विधा- संसारकारणभूतोऽप्रशस्तः, मोक्षनिबन्धनभूतस्तु प्रशस्तः । तत्राऽशुभस्य तस्य भावोपक्रमस्य ब्राह्मणी- वेश्या - अमात्यादयो दृष्टान्ताः प्रतिपादिताः । तद्यथा एकस्या ब्राह्मण्यास्तिस्रः पुत्रिकाः । तासां च परिणयनानन्तरं तथा करोमि यथैताः सुखिता भवन्ति इति विचिन्त्य माता ज्येष्ठदुहितरं प्रत्यवोचत्, यदुत- त्वया वासभवनसमागमे स्वभर्ता कश्चिदपराधमुद्भाव्य मूर्ध्नि पादप्रहारेण हन्तव्यः । हतश्च यदनुतिष्ठति तद् ममाऽऽख्येयम् । कृतं च तया तथैव । सोऽप्यतिस्नेहतरलितमनाः 'अयि प्रियतमे ! पीडितस्ते सुकुमालश्चरणो भविष्यति' इत्य भिधानपूर्वकं तस्याश्चरणोपमर्दनं चकार । अमुं च व्यतिकरं सा मात्रे निवेदितवती । साऽप्युपक्रान्तजामात्रिकभावा हृष्टा दुहितरं प्रत्यवादीत् - पुत्रिके! यद् रोचते तत् त्वदीयगृहे कुरु त्वम्, न तवाऽवचनकरो भर्ता भविष्यतीति । द्वितीयाऽपि तथैव शिक्षिता । तयापि च तथैव स्वभर्ता शिरसि महतः, केवलमसौ ' नैतत् कुलप्रसूतानां युज्यते ' इत्यादि किञ्चित् क्षणमेकमृषित्वा व्युपरतः । तस्मिंश्च व्यतिकरे तया मातुर्निवेदिते प्रोक्तं मात्रा - वत्से ! त्वमपि यथेष्टं तद्गृहे विजृम्भस्व, केवलं तव भर्ता क्षणमेकं मृपित्वा स्थास्यति । एवं १ छायया नाडिकया च परिकर्म तस्य यथार्थविज्ञानम् । ऋक्षादिचारैश्च तस्य विनाशो विपर्यासः ॥ ९२७ ॥ २ र्यंत परहृदयाकृतावधारणमुपक्रमः स भावस्य । तस्याशुभस्य ब्राह्मणी-गणिका अमात्यादयोऽभिहिताः || ९२८ ॥ ३ . छ. 'ष्टं विजृम्भख तद्गृहे के' । For Personal and Private Use Only बृहद्वृत्तिः । ॥४३६॥ www.jainelibrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy