________________
बृहद्वत्तिः।
विशेषा० ॥४३५॥
EPSICORPORAJASTHIROINTS
क्षेत्रममूर्तम् , नित्यं च, इति न तस्य परिकर्म-विनाशौ कर्तुं शक्यते तदाधेयद्रव्यस्य तु जल-भूम्यादेस्तौ सुप्रतीतावेव । ततस्तद्गतयोस्तयोरत्र क्षेत्रे 'मश्चाः क्रोशन्ति' इत्यादिन्यायादुपचारः क्रियत इति ॥ ९२४ ॥
आधेयद्वारेणापि कथं क्षेत्रस्य तौ भवतः ?, इत्याह
नावाए उवक्कमणं हल-कुलियाईहिं वा वि खेत्तस्स । संमजभूमिकम्मे पंथतलागाइयाणं च ॥ ९२५ ॥ |
जलाधारस्य क्षेत्रस्य नावुडुपादिभिरुपक्रमः क्रियते, भूम्याधारस्य तु तस्य हल-कुलिकादिभिः परिकर्मोपक्रमः । तत्र हलं प्रतीतम् , कुलिकं तु दन्तालवत्तिर्यक्कृतकाष्ठे उभयपार्थनिखातकाष्ठमयकीलकयोस्तिर्यग्व्यवस्थापिततीक्ष्णलोहपट्टकं हरितादिच्छेदनार्थ क्षेत्रेषु यद् वाह्यते, तल्लाटादिकृषीवलपतीतं वेदितव्यम् । एवं संमार्जन-भूमिकर्म-मार्गतडागादीनां च करणेन परिकर्मणि क्षेत्रोपक्रमः । विनाशोपक्रमस्तु क्षेत्रस्य गजबन्धनादिभिर्विज्ञेय इति ॥ ९२५॥
अथ कालोपक्रममाह
जं वत्तणाइरूवो कालो दव्वाण चेव पजाओ। तो तक्करणविणासे कीरइ कालोवयारोऽत्थ ॥ ९२६ ॥
यद् यस्मात् कारणात् 'कालश्चेत्येके' इति वचनाद् वर्तनादिरूपः कालो द्रव्याणामेव पर्यायः, न पुनरन्यः कश्चित् समयावलिकादिरूपः, ततस्तत्करण-विनाशयोर्द्रव्यस्य परिकर्म-विनाशयोः सतोरित्यर्थः, अत्रैव तत्पर्याये कालोपक्रमोपचारः क्रियते । इदमुक्त भवति- इह केचिद् वर्तनादिरूपमेव कालमिच्छन्ति, न पुनः समयादिरूपम् । तत्र तेन तेन व्यणुक-त्र्यणुकादिरूपेण परमाण्वादिद्रव्याणां वर्तनं वर्तना, आदिशब्दात् परिणाम-क्रियादिपरिग्रहः, नव-पुराणादिभावेन वस्तूनां परिणमनं परिणामः। अतीता-ऽनागत-वर्तमानलक्षणा तु क्रिया । तदेप वर्तना-परिणाम-क्रियादिरूपः कालो द्रव्याणामेव पर्यायः, नान्यः । ततो द्रव्यस्य परिकर्म-विनाशौ वर्तनादिरूपे तत्पर्यायेऽप्युपचर्येते इति ॥ ९२६॥
आह- ननु ये समयादिरूपं कालमिच्छन्ति, तदभिप्रेतस्य समयादिकालस्य कथं परिकर्म-विनाशौ ?, इत्याशङ्कयाह
FOR
॥४३५॥
नाघोपक्रमण हल-कुलिकादिभिर्वापि क्षेत्रस्य । संमार्जभूमिकर्मणि पधितडागादिकानां च ॥ ९२५ ॥ २ यद् वर्तनादिरूपः कालो द्रव्याणामेव पर्यायः । ततस्तत्करण-विनाशयोः क्रियते कालोपचारोऽन्न ॥९२६ ॥
Recei
बल
Jan Education internat
For Personal
Use Only