________________
विशेषा
॥४३४॥
तत्राद्यभेदद्वयं सुगमम् । तद्यतिरिक्तद्रव्योपक्रमस्तु सचित्तादिभेदात् त्रिविधः । तत्र सचित्तद्रव्योपक्रमो द्विपद-चतुष्पदादीनाम् , अचित्तद्रव्योपक्रमो गुड-खण्ड-कुसुम्भादीनाम् , मिश्रद्रव्योपक्रमस्तु तेषामेवाऽऽभरणादियुक्तानां द्विपदादीनाम् । अयं च सचित्तायुपक्रमः प्रत्येकं पुन-1 रपि द्विधा-परिकर्मणि, वस्तुनाशे चेति ॥ ९२२ ।।
तत्र परिकर्म-विनाशयोः स्वरूपमाह
परिकम्म किरिवाए वत्थूणं गुणविसेसपरिणामो । तदभावे य विणासो दवाईणं जहाजोगं ॥ ९२३ ॥ इह परिकर्मोच्यते । किम् ?, इत्याह- क्रियया क्रियाविशेषेण यो वस्तूनां गुणविशेषपरिणामो गुणविशेषाधानमित्यर्थः । तद्यथा- पुरुषादीनां घृत-रसायनाशुपयोगक्रियया, स्नेहमर्दनादिक्रियया च वर्ण-बल-वयःस्तम्भादयः, कर्ण-स्कन्धवर्धनादयश्च क्रियन्ते । केचित् शास्त्र-शिल्प-गन्धर्ववृत्त्यादिकलाऽऽपादनमपि प्रस्तुतोपक्रममाचक्षते; एतच्च विज्ञानविशेषाधानरूपत्वाद् भावोपक्रमो युज्यते; यदिवा, आत्मद्रव्यसंस्कारविवक्षया द्रव्योपक्रमेऽप्यविरोधः। एवं शुक-सारिकादीनामपि शिक्षागुणाधाने भावनीयम् । इत्युक्तः परिकर्मणि द्विपदादीनां सचित्तद्रव्योपक्रमः।।
अथ वस्तुनाशोपक्रम उच्यते- 'तदभावे विणासो त्ति' तदभावे वस्त्वभावापादने विनाशो विनाशस्योपक्रम इत्यर्थः, तेषामेव पुरुषादीनां कालान्तरभाविनो विनाशस्य खड्गादिभिरुपक्रम्येदानीमेव क्रियमाणत्वादिति । एवं चतुष्पदानामपि हस्त्य-श्वादीनाम् , अपदानां दाडिमा-ऽऽम्र-कपित्यादीनां परिकर्म-विनाशौ भावनीयाविति । एवं सचित्तद्रव्योपक्रमः । अचेतनस्य तु मणि-मौक्तिक-वस्त्रादेः क्षार-मृत्पुटपाकादिना परिकर्मोपक्रमः, घेनाऽऽघातादिना तु नाशोपक्रमः । मिश्रद्रव्यस्य पुनस्तस्यैव द्विपदादेवस्वालङ्कारादियुक्तस्य द्विविधोऽप्युपक्रमो भावनीयः । एवं यथा द्रव्यस्योपक्रमः, एवमादिशब्दात् क्षेत्र-कालयोरपि यथायोगं भावनीयः । अत एवोक्तम्-'दव्वाईणं जहाजोगं ति' । तं च क्षेत्र-कालोपक्रम 'नावाए उवक्कमणं' इत्यादिना खत एव वक्ष्यतीति ।। ९२३ ।।
अत्र पराभिप्रायमाशय परिहरनाह*खेत्तमरूवं निच्चं न तस्स परिकम्मणा न य विणासो । आहेयगयवसेण उ करण-विणासोवयारोऽत्थ॥९२४॥ १ परिकर्म क्रियया वस्तूना गुणविशेषपरिणामः । तदभावे च विनाशो न्यादीनां यथायोगम् ॥ ९२३ ॥ २ क. ग. 'घनघा' । ३ गाथा ९२५ ।
॥४३४॥ ४ क्षेत्रमरूपं नित्यं न तस्य परिकर्म न च विनाशः । आधेयगतबशेन तु करण-विनाशोपचारोऽन्न ॥ ५२४ ॥
खBasiOSS
For Personal and Private Use Only
www.airnestrary.org