SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ विशेषा० बृही ॥४३३॥ संक्षेपार्थः । परिपाटी- आनुपूर्युच्यते । सा च त्रिविधा वक्ष्यते. तद्यथा- पूर्वानुपूर्वी, पश्चानुपूर्वी, अनानुपूर्वी चेति । तत्रेहाध्ययने का परिपाटी प्रयोजनवती ?, इति प्रश्ने त्रिविधापीह सप्रयोजनेति वाच्यम् । तथा, पूर्वानुपूर्व्यादिना चिन्त्यमानमिदमध्ययनं कतिथम् इति प्रष्टव्यम् । तत्र पूर्वानुपूर्व्या प्रथम, पश्चानुपूर्व्या षष्ठम् , अनानुपूर्व्या पुनः सातिरेकसप्तभङ्गकशतविषयत्वादनियतमिति वक्ष्यते । इत्यानुपूर्वीसंक्षेपार्थः । नाम पुनरौदयिकादिषड्भावविषयत्वात् षड्विधं वक्ष्यते । तत्र कस्मिन् भावे इदमध्ययनं वर्तते? इति प्रष्टव्यम् । तत्र च क्षायोपशमिके भावे वर्तत इति वक्ष्यते । इति नामसंक्षेपार्थः । प्रमाणविषयसंक्षेपमाह- 'किमिदमित्यादि' किमिदमध्ययन द्रव्यम् , गुणः, कर्म वा? इति चिन्तायां गुण इति वाच्यम् । गुणत्वेऽपि किं जीवगुणः, अजीवगुणः इति चिन्तायां जीवगुण इति वक्तव्यम् । जीवगुणत्वेऽपि किं ज्ञानं, दर्शनं, चारित्रं वा' इति चिन्तायां ज्ञानमिति वक्ष्यते । तदपि किं प्रत्यक्षम् , अनुमानम् , औपम्यम्, आगमो वा ? इति चिन्तायामागम इति वक्ष्यते । आगमत्वेऽपि किमसौ लौकिकः, लोकोत्तरो वा ? इति चिन्तायां लोकोत्तर इति वक्ष्यते । लोकोत्तरत्वेऽपि किं मूत्रागमः, अर्थागमः, उभयागमो वा; तथा, किमात्मागमः, अनन्तरागमः, परम्परागमो वा? इति चिन्तायां तीर्थकराणामर्थत इदमध्ययनमात्मागमः, मूत्रतस्तु गणधराणामात्मागम इत्यादि वक्ष्यते । अपि च, लोकोत्तरागमत्वेऽपि किमिदमध्ययनं दृष्टिवादिकम् , कालिकं वा? इति चिन्तायां कालिकमिति वाच्यम्-कालवेलावर्जे काले पठ्यत इत्यर्थः । कालिकत्वेऽपि किमस्य मूत्रार्थपरिमाणम् ? इति वाच्यम् । इति प्रमाणसंक्षेपार्थः । स्व-परो-भयसमयानां मध्ये कोऽत्र वक्तव्यः' इति प्रश्ने खसमयोऽत्र वक्तव्यः । इति वक्तव्यतासंक्षेपार्थः । खसमयत्वेऽपि कोऽस्य समयैकदेशः समुदायार्थत्वेनाधिक्रियते ? इति प्रश्ने, सावद्ययोगविरतिरिहार्थाधिकार इति प्रतिवचनम् । इत्याधिकारसंक्षेपार्थः । समवतारस्त्वानुपूर्व्यादिषु विहित एवेति । एवमादिभिः प्रकारेरस्याध्ययनस्योपक्रमणं निक्षेपयोग्यताऽऽपादनं कर्तव्यम् । इत्युपक्रमसंक्षेपार्थः। इति सप्तदशगाथार्थः ॥९१७१९१८॥९१९॥९२०॥९२१॥ अथ पूर्व यदुक्तम्- 'उपक्रमः षड्भेद' । तत्र तानेव षट् भेदान् स्वरूपतः प्राह नामाई छब्भेओ उबक्कमो दव्वओ सचित्ताई । तिविहो य पुणो दुविहो परिकम्मे वत्थुनासे य ॥ ९२२ ॥ इह नाम-स्थापना-द्रव्य-क्षेत्र-काल-भावोपक्रमभेदादुपक्रमः षड्भेदः। तत्र नाम-स्थापने सुगमे । द्रव्योपक्रमस्त्वागमतः, नोआगमतश्च । तत्रागमत उपक्रमपदार्थज्ञस्तत्रानुपयुक्तः, नोआगमतस्तु ज्ञशरीरद्रव्योपक्रमः, भव्यशरीरद्रव्योपक्रमः, तव्यतिरिक्तद्रव्योपक्रमश्च । प. उ. 'यो तुष २ नामादिः षड्भेद उपकमो द्रव्यतः सचित्तादिः । त्रिविधा पुनर्द्विविधः परिकर्मणि वस्तुनाशे च ॥ ९२२ ॥ For Personal and Private Use Only
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy