________________
विशेषा०
बृहद्वत्तिः ।
॥४३॥
अणुगम्मइ तेण तहिं तओ अणुगमणमेव वाणुगमो । अणुणोऽणुरूवओ वा जं सुत्तत्थाणमणुसरणं ॥९१३॥
अनुगम्यते व्याख्यायते सूत्रमनेन, अस्मिन् , अस्मात् वेत्यनुगमः, वाच्यार्थविवक्षा तथैव । अथवा, अनुगमनमनुगमः अणुनो वा मूत्रस्य गमो व्याख्यानमित्यनुगमः, यदि वा, अनुरूपस्य घटमानस्याऽर्थस्य गमनमनुगमः । सर्वत्र किमुक्तं भवति ?, इत्याह- यत् सूत्रार्थयोरनुरूपमनुकूलं सरणं संबन्धकरणमित्यनुगम इति ॥ ९१३ ॥
अथ नयनिरुक्तिमाह
से नयइ तेण तहिं वा तओऽहवा वत्थुणो व जं नयणं । बहुहा पज्जायाणं संभवओ सो नओ नाम ॥९१४॥
स एव वक्ता संभवद्भिः पर्यायैर्वस्तु नयति गमयतीति नयः; अथवा, नीयते परिच्छिद्यतेऽनेन, अस्मिन् , अस्माद् वेति नयः; अनन्तधर्माध्यासिते वस्तुन्येकांशग्राहको बोध इत्यर्थः । यदिवा, बहुधा वस्तुनः पर्यायाणां संभवाद् विवक्षितपर्यायेण यद् नयनमधिगमनं परिच्छेदनमसौ नयो नाम ॥ ९१४ ॥
॥ इति सप्तमं निरुक्तिहारम् ॥ नन्वादावुपक्रमः, तदनन्तरं निक्षेपः, तदनन्तरं चानुगमः, ततोऽप्यनन्तरं नयः, इत्यमीषामनुयोगद्वाराणामित्थं क्रमोपन्यासे किं प्रयोजनम् ?, इत्याशङ्कय 'कम-पओयणाई च वच्चाई' इत्यष्टमं क्रमप्रयोजनद्वारमभिधित्सुराह
दारकमोऽयमेव उ निक्खिप्पइ जेण नासमीवत्थं । अणुगम्मइ नाणत्थं नाणुगमो नयमयविहणो ॥९१५॥ संबंधोवक्कमओ समीवमाणीय नत्थनिक्खेवं । सत्थं तओऽणुगम्मइ नएहिं नाणाविहाणेहिं ॥ ९१६ ॥ एषामनुयोगद्वाराणामयमेवोपन्यासक्रमः, येन नासमीपस्थमनुपक्रान्तं निक्षिप्यते, न च नामादिभिरनिक्षिप्तमर्थतोऽनुगम्यते,
अनुगम्यते तेन तस्मिस्ततोऽनुगमनमेव वाऽनुगमः । अणुनोऽनुरूपतो वा यत् सूत्रा-ऽर्थयोरनुसरणम् ॥ ९१३॥ २स नयति तेन तस्मिन् वा ततोऽथवा वस्तुनो वा यद् नयनम् । बहुधा पर्यायाणां संभवतः स नयो नाम ॥ ९१४॥ ३ गाथा २ ।
द्वारक्रमोऽयमेव तु निक्षिप्यते येन नासमीपस्थम् । अनुगम्यते माऽम्यस्तं मानुगमो नयमतविहीनः ॥ ९१५॥ संबन्धोपक्रमतः समीपमानीय व्यस्तनिक्षेपम् । शास्त्रं ततोऽनुगम्यते नानाविधानः ॥ ९१६॥
॥४३१॥