________________
विशेषा०
॥४३०॥
Jain Educationa Internatio
अथ 'तम्भेय तिं' तद्भेदद्वारमाह- 'छ-तीत्यादि' इह यथासंख्यं संबन्धः - उपक्रमः षद्विकल्पः, निक्षेपस्त्रिभेदः, अनुगमो द्विभेदः, नयोsपि द्विभेदः । प्रभेदतस्तूपक्रमादयोऽनेकभेदाः । एषां च भेद-प्रभेदानां स्वरूपं पुरस्ताद् विस्तरेण वक्ष्यते ।। ९१० ॥ ॥ इति षष्ठं तद्भेदद्वारम् ॥
अथ "निरुत्त ति' सप्तमं निरुक्तिद्वारमभिधित्सुराह
सेत्थ सोमणं उक्कमो तेण तम्मि व तओ वा । सत्यसमीवीकरणं आणयणं नासदेसम्मि ॥ ९११ ॥
उप सामीप्ये, 'क्रम पादविक्षेपे' उपक्रमणं दूरस्थस्य शास्त्रादिवस्तुनस्तैस्तैः प्रतिपादनप्रकारैः समीपीकरणं न्यासदेशानयनं निक्षेपयोग्यताकरणमित्युपक्रमः उपक्रान्तं द्युपक्रमान्तर्गत भेदैर्विचारितं निक्षिप्यते, नान्यथेति भावः । उपक्रम्यते वा निक्षेपयोग्यं क्रियतेऽनेन गुरुवाम्योगेनेत्युपक्रमः । अथवा, उपक्रम्यतेऽस्मिन् शिष्यश्रवणभावे सतीत्युपक्रमः । यदिवा, उपक्रम्यतेऽस्माद् विनीतविनेयविनयादित्युपक्रमः विनयेनाऽऽराधितो हि गुरुरुपक्रम्य निक्षेपयोग्यं शास्त्रं करोतीत्यभिप्रायः । तदेवं करणा-ऽधिकरणो-पादानकारकैर्गुरुवाग्योगादयोऽर्थाविवक्षाभेदतो भेदेनेोक्ताः यदि तु विवक्षया सर्वेऽप्येकैककरणादिकारकवाच्यत्वेनोच्यन्ते, तथापि न दोषः । 'सत्थसमीवीकरणं ति' शास्त्रस्य समीपीकरणं शास्त्रस्य न्यासदेशानयनं निक्षेपयोग्यताकरणमुपक्रम इति सर्वत्र संबध्यत इति ।। ९११ ॥
अथ निक्षेपस्य निरुक्तिमाह
निक्खिप्पइ तेण तहिं तओ व निक्खेवणं व निक्खेवो । नियओ व निच्छिओ वा खेो नासो तिजं भणियं ॥ ९९२॥
निक्षिप्यते शास्त्रमध्ययनो- देशादिकं च नाम-स्थापना- द्रव्यादिभेदैर्न्यस्यते व्यवस्थाप्यतेऽनेन, अस्मिन् अस्माद् वेति निक्षेपः; गुरुवायोगादिविवक्षा तथैव । अथवा, निक्षेपणं शास्त्रादेर्नाम स्थापनादिभेदैर्न्यसनं व्यवस्थापनमिति निक्षेपः । निशब्द -क्षेपशब्दयोरर्थमाह - नियतो निश्चितो वा, क्षेपः- शास्त्रादेर्नामादिन्यास इति निक्षेप इति यदुक्तं भवत्ययं परमार्थ इत्यर्थः ॥ ९१२ ॥
अथानुगमनिरुक्तिमाह
१ गाथा २ ।
२ शास्त्रस्योपक्रमणमुपक्रमस्तेन तस्मिन् वा ततो वा । शाखसमीपीकरणमानयनं न्यासदेशे ॥ ९११ ॥
३ निक्षिप्यते तेन तस्मिंस्ततो वा निक्षेपणं वा निक्षेपः । नियतो वा निश्चितो वा क्षेपो न्यास इति यद् भणितम् ॥ ११२ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥४३०॥
www.jainelibrary.org