SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥४२९॥ तस्य च सामायिकाध्ययनस्य महापुरस्य द्वाराणीव चत्वार्यनुयोगद्वाराणि भवन्ति । तत्रानुयोगः किमुच्यते ?, इत्याह- तदथोऽध्ययनार्थः । आह-नन्वनुयोगो व्याख्यानमुच्यते, तत् कथं तदेवाध्ययनार्थ उच्यते ?। सत्यम् , किन्तु व्याख्यानेऽप्यध्ययनार्थः कथ्यते, अतोऽभेदोपचारात् तदपि तथोच्यत इत्यदोषः । द्वाराणि पुनस्तत्प्रवेशमुखानि ॥ ९०७॥ अर्थतामेव पुरकल्पनां द्वारकल्पनां चार्थवतीं दर्शयन्नाह__ अकयदारमनगरं कएगदारं पि दुक्खसंचारं । चउमूलद्दारं पुण सपडिदारं सुहाहिगमं ॥ ९०८ ॥ अकृतद्वारं नगरं संततपाकारवलयवेष्टितमनगरमेव भवति, जनप्रवेश-निर्गमाभावात् । तथा, कृतैकद्वारमपि हस्त्य-श्व-रथ-जनसंकुलत्वाद् दुःखसंचारं जायते, कार्यातिपत्तये च भवति । कृतचतुर्मूलपतोलीद्वारं तु सप्रतिद्वारं सुखाधिगमं सुखनिर्गम-भवेशं भवति, कार्यानतिपत्तये च संपद्यत इति ॥ ९०८॥ तथा किम् ?, इत्याशङ्कय निर्दिष्टदृष्टान्तस्योपनयमाह सामाइयमहपुरमवि अकयदारं तहेगदारं वा । दुरहिगम, चउदारं सपडिदारं सुहाहिगमं ॥ ९०९॥ __ एवं सामायिकमहापुरमप्याधिगमोपायभूतद्वारशून्यमशक्याधिगमम् , कृतैकानुयोगद्वारमपि कृच्छ्रेण द्राघीयसा च कालेनाधिगम्यते । विहितसप्रभेदोपक्रमादिद्वारचतुष्टयं पुनरयत्नेनाऽल्पीयसा च कालेनाधिगम्यत इति ॥ ९०९॥ कानि पुनस्तान्यनुयोगद्वाराणि ', इत्याह ताणीमाणि उवक्कम-निक्खेवा-ऽणुगम-नयसनामाई । छ-त्ति-दु-दुविगप्पाइं पभेयओऽणेगभेयाइं ॥९१०॥ तानि चैतान्यनुयोगद्वाराणि, तद्यथा- उपक्रमो वक्ष्यमाणभेदादिस्वरूपः, निक्षेपः, अनुगमः, नयश्चेत्येतैर्नामभिः सनामानि साभिधानानीति ॥ ॥ पञ्चमं द्वारोपन्यासहारं समाप्तम् ॥ , अकृतद्वारमनगरं कृतकद्वारमपि दुःखसंचारम् । चतुर्मूलद्वारं पुनः सप्रतिद्वारं सुखाधिगमम् ॥ ९०४ ॥ २ सामायिकमहापुरमण्यकृतद्वारं तथैकद्वारं वा । दुरधिगम, चतुहार सप्रतिद्वारं सुखाधिगमम् ॥१०॥1 क. श. 'यपुरमेवं अV. 'मतिक . ५ तानीमानि उपक्रम निक्षेपा-धिगम-नयसनामानि । पद्-त्रि-द्वि-द्वि-विकल्पानि प्रभेदतोऽनेकभेदानि ॥ ११०॥ नरयत्नेनाऽल्पीयाधिगमम् , कारसपडिदार मा ॥४२९॥ . HERE
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy