________________
RAGE
बृहद्वत्तिः ।
विशेषा० ॥४२८॥
अथ 'तस्स फल-जोग-मंगल-समुदायत्था तहेव दाराई इत्यादिगाथाभणनक्रमायातमुपक्रमाचनुयोगद्वारभणनरूपं पञ्चमं द्वारमभिधित्सुः, प्रथमं तावत् सामायिकाध्ययनं वर्णयमाह
तत्थज्झयणं सामाइयं ति समभावलक्खणं पढमं । जं सव्वगुणाहारो वोमं पिव सव्वदव्वाणं ॥९०५॥
सत्र तेषु षट्स्वध्ययनेषु मध्ये समभावेन लक्ष्यते समभावलक्षणं सामायिकाध्ययनं सर्वेषामपि प्रथममाद्यम् । कुतस्तस्य प्राथम्यम् ?, इत्याह- यद् यस्मात् कारणात् सर्वेषामपि मूलो-त्तरगुणानां तदेव सामायिकाध्ययनमाधारः, तस्मिन् सत्येव तद्भावात् , तदभावे च तेषामभावात् । न हि समताशून्ये प्राणिनि कापि पारमार्थिकगुणावस्थानमस्ति । यथा केषां किमाधारः, इत्याह-व्योम आकाशं तदिव सर्वेषामपि धर्मास्तिकायादिद्रव्याणामिति ॥९०५॥ अथवा प्राथम्ये तस्य कारणान्तरमाहअहवा तब्भेय चिय सेसा जं दसणाइयं तिविहं । न गुणो य नाण-दसण-चरणब्भहिओ जओ अत्थि ॥९०६॥
अथवा, तज्दा एव सामायिकाध्ययनविशेषा एव शेषाणि चतुर्विंशतिस्तवाद्यध्ययनानि । कुतः ?, इत्याह- यद् यस्माद् दर्शन-ज्ञान-चारित्रसामायिकभेदात् त्रिविध सामायिकम् । यद् वक्ष्यति- 'सामाइयं च तिविहं सम्मत्त सुयं तहा चरित्तं च' इति । अस्मिंश्च भेदत्रये सर्वोऽपि गुणजातिरन्तर्भवति, यस्माद् न ज्ञान-दर्शन-चारित्रेभ्योऽन्यः कश्चनापि चतुर्विंशतिस्तवादिगतो गुणः समस्ति । तदेवं शेषाध्ययनानां तद्भेदत्वात् सामायिकमेवादौ निर्दिष्टमिति ॥९०६॥ ___ ततः किम् ?, इत्याह
अणुओगद्दाराई महापुरस्सेव तस्स चत्तारि । अणुओगो त्ति तदत्थो दाराइं तस्स उ मुहाइं ॥ ९०७ ॥
१ गाथा २। २ क.ग. 'चमदा'। ३ तत्राध्ययनं सामायिकमिति समभावलक्षणं प्रथमम् । यत् सर्वगुणाधारो व्योमेव सर्वव्याणाम् ॥ ९.५॥ ४ क.ख.ग.'थ प्रा'। ५ अथवा तनेदा एव शेषा यद् दर्शनादिकं त्रिविधम् । न गुणश्च ज्ञान-दर्शन-चारित्राभ्यधिको यतोऽस्ति ॥ ९०६ ॥
६ सामायिकं च त्रिविध सम्यक्त्वं श्रुतै तथा चारित्रं च । . अनुयोगद्वाराणि महापुरस्येव तस्य तुत्वारि । अनुयोग इति तदर्थों द्वाराणि तस्य तु मुखानि ॥ ९०५॥
॥४२८॥
Jan Education Internation
For Personal and Private Use Only
EMAIww.jaineltrary.org