________________
विशेषा
॥४२७॥
PREMARAHMIRREARRAN
सावज्जजोगविरई उकित्तण गुणवओ य पडिवत्ती। खलियरस निंदणा वणतिगिच्छ गुणधारणा चेव॥९०२॥
सावद्ययोगविरतिराधिकारः सामायिकाध्ययनस्य । अर्हतां गुणोत्कीर्तनमाधिकारश्चतुर्विंशतिस्तवाध्ययनस्य । गुणवतो गुरोवन्दनकदानादिपूजाविशेषरूपा प्रतिपत्तिराधिकारो वन्दनाध्ययनस्य । श्रुत-शीलस्खलितनिन्दनार्थाधिकारः प्रतिक्रमणाध्ययनस्य । चारित्रात्मनो व्रणचिकित्सा- अपराधव्रणरोहणमाधिकारः कायोत्सर्गाध्ययनस्य । व्रतभङ्गातिचारापचितकर्मविशरणार्थमनशनादिगुणधारणार्थाधिकारः प्रत्याख्यानाध्ययनस्येति । तदेवमावश्यक-श्रुत-स्कन्धलक्षणस्य पदत्रयस्य विहितो नामादिन्यासः । कृतं च षडाधिकारभणनलक्षणं समुदायार्थनिरूपणम् ॥ ९०२॥
अथाध्ययनस्य पूर्वप्रतिज्ञातो नामादिन्यासो वक्तव्यः। स चावसरप्राप्तोऽपि नोच्यते, यत उपक्रमाद्यनुयोगद्वारक्रमागतानामेव सामायिकादीनां षण्णामप्यध्ययनानां पृथक् पृथगोघनिष्पन्ने निक्षेपे लाघवार्थमिहैवाग्रे वक्ष्यते; एतदेवाह
दोरक्कमागयाणं वीसुं वीसुमिहमोहनिप्फन्ने । अज्झयणाणं नासं वक्खामो लाघवनिमित्तं ॥ ९०३ ॥ पातनयैव व्याख्यातेति ।। ९०३ ॥ अथोक्तमुपसंहरन् वक्ष्यमाणं च संवन्धयन्नाह
आवस्सयस्स एसो पिंडत्थो वण्णिओ समासेणं । एत्तो एक्ककं पुण अज्झयणं वण्णयिस्सामि ॥९०४॥ इत्येवं पूर्वोक्तप्रकारेण 'आवश्यकश्रुतस्कन्धः' इति सान्वर्थशास्त्रनामप्रतिपादनादेवाऽऽवश्यकस्यैष पूर्वोक्तः पिण्डार्थः समुदायार्थः समासेन संक्षेपेण वर्णितः । अथावयवार्थकथननिमित्तमेकैकं सामायिकाद्यध्ययनं वर्णयिष्यामीति । इति समुदायार्थकथनलक्षणे चतुर्थद्वारे प्रसङ्गायाताऽष्टषष्टिगाथादिरूपकार्थः॥ ९०४ ॥
॥ तदेवमभिहितं समुदायार्थकथनलक्षणं चतुर्थद्वारम् ॥
A SIESTABASANAS
, सावययोगविरतिरुकीर्तनं गुणवतश्च प्रतिपत्तिः । स्खलितस्य निन्दना व्रणचिकित्सा गुणधारणा चैव ॥ ९०२॥ २द्वारक्रमागतानां विष्वग् विष्वगिहोघनिष्पन्ने । अध्ययनानां न्यासं वक्ष्यामो लाघवनिमित्तम् ॥ ९०३॥ ३ आवश्यकस्यैप पिण्वार्थों वर्णितः समासेन । इत एकैकं पुनरध्ययनं वर्णयिष्यामि ॥ ९०४॥
SSIOSCORT
॥४२७॥