________________
पा
विशेषा० ॥४२६॥
स च ज्ञान-क्रिया-गुणसमूहः कः ?, इत्याहसामाइयाइयाणं छण्हज्झयणाण सो समावेसो । नोआगमो त्ति भण्णइ नोसद्दो मीसभावम्मि ॥८९९॥
वृहदत्तिः । स च ज्ञान-क्रिया-गुणसमूहोऽत्र वक्ष्यमाणस्वरूपाणां सामायिकादीनां षण्णामध्ययनानां समावेशः समुदाय उच्यते, अस्यैव - ज्ञान-क्रिया-गुणमयत्वात् । अयं च नोआगमो भण्यते । कुतः?, इत्याह- यतो नोशब्दो मिश्रभावे वर्तते, मिश्रश्वैप ज्ञान-क्रिया गुणोपयोग। इति । तदेवमुक्तो भावस्कन्धोऽपि ॥८९९॥
अथ स्कन्धस्यैकार्थिकनामान्याह__ गैण-कोय-निकाए य खंधे वग्गे तहेव रासी य । पुंजे पिंडे नियरे संघाए आउल सर्गेहे ॥९००॥
एषामपि स्कन्धैकार्थनाम्नामर्थः प्रागतिदेशतः प्रोक्त एवेति । तदेवमावश्यकस्य श्रुतस्य स्कन्धस्य च विहितो नामादिन्यासः। अथास्य पदत्रयस्यापि समास उच्यते । पण्णां श्रुतविशेषाणां स्कन्धः श्रुतस्कन्धः, आवश्यकं च तत् श्रुतस्कन्धश्चावश्यकश्रुतस्कन्धः । अथवा, आवश्यकं च तत् श्रुतं चावश्यकश्रुतम् , तस्य षडध्ययनसमुदायात्मकः स्कन्ध आवश्यकश्रुतस्कन्ध इति । उक्तं शास्त्राभिधानम् ॥९००॥
अथ सामायिकाद्यध्यनानामर्थाधिकारदर्शनार्थ प्रस्तावनामाह
"किं पुण छक्कज्झयणं, जेण च्छलत्थाहिगारविणिउत्तं । सामाइयाइयाणं ते य इमे छ जहासंखं ॥९०१॥
आह-किं पुनरिह कारणम्, येन षडध्ययनमिदमावश्यकम्-पड् अध्ययनानि यत्र तत् पडध्ययनमिति समासः । अत्रोच्यतेयेन पभिराधिकारैर्विनियुक्तं निबद्धम् । ते च षडाधिकाराः सामायिकादीनां पण्णामध्ययनानां यथासंख्यमेते द्रष्टच्या इति ॥९०१
के पुनस्ते, इत्याह
१ सामायिकमादिकानां षण्णामध्ययनानां स समावेशः । नोआगम इति भण्यते नोशब्दो मिश्रभावे ॥ ८९९ ॥ २ गण-काय निकायाम स्कन्धो वर्गस्तथैव राशिश्च । पुनः पिण्डो निक: संघात आकुलः समूहः ॥ १०॥ । 'काए अ निकाए खं' इत्यनुयोगद्वारसत्रे । ४ प. छ.'मूहो' । ५ किं पुनः षडध्ययनं, येन पदाधिकारविनियुक्तम् । सामायिकादिकानां ते मे पद् यथासंख्यम् ॥ ९०१॥
॥४२६॥
For Peso
Use