________________
विशेषा ०
॥४२५॥
Jain Educationa Internati
अथाऽकृत्स्नस्कन्ध उच्यते- यस्मादन्यो बृहत्तरः स्कन्धोऽस्ति, सोऽपरिपूर्णत्वादकृत्स्नस्कन्धः, स च द्विप्रदेशिकादिर्यावत् सर्वोत्कृष्टानन्तपरमाणुसन्ततिनिष्पन्न एकेन परमाणुना न्यूनस्तावद् विज्ञेयः । उत्कृष्टानन्ताणुस्कन्धापेक्षया कपरमाणुन्यूनोत्कृष्टानन्ताणुकोsकृत्स्नस्कन्धः, तदपेक्षया तु परमाणुद्वयन्यूनोत्कृष्टानन्ताणुकोऽकृत्स्नस्कन्धः । एवमेकैकपरमाणुहान्या तावद् नेयं यावत् त्रिप्रदेशिकस्कन्धापेक्षा द्विपदेशिक स्कन्धोऽकृत्स्नस्कन्धः । अत एव प्रागुक्ताचित्तस्कन्धादस्य भेदः पूर्व हि द्विपदेशिकादेः परिपूर्णोत्कृष्टानन्तास्कन्धपर्यन्तस्य सर्वस्याप्यचित्तस्कन्धस्य सामान्येन संग्रहात् ; अत्र त्वेकः परिपूर्णोत्कृष्टानन्ताणुको न संगृह्यते, तस्य कृत्स्नस्कन्धत्वादिति ।
अथानेकद्रव्यस्कन्ध उच्यते- अनेकैः सचित्ताऽचित्तलक्षणैर्द्रव्यैर्निष्पन्नः स्कन्धोऽनेकद्रव्यस्कन्धः । स च हय-गजादिस्कन्ध एव । कथंभूतः ?, इत्याह- 'देसोऽवचिओवचिओ त्ति' अपचितश्वासावुपचितश्चापचितोपचितः, देशेऽपचितोपचितो देशापचितोपचितः । इदमुक्तं भवति - देशे नख- दशन- केशादिलक्षणेऽपचितो जीवप्रदेशैर्विरहितो देशापचितः, अन्यस्मिंस्तु पृष्ठ-हृदय-बाहू-र्वादिलक्षणे देशे उपचितो जीवप्रदेशैर्व्याप्तो देशोपचित:- विशिष्टैक परिणामपरिणतस चेतना वेतन देश समुदायात्मको हयादिस्कन्धोऽनेकद्रव्यस्कन्ध इत्यर्थः । आह- यद्येवम्, कृत्स्नस्कन्धादस्य को विशेषः १ । उच्यते तत्र किल हयादिर्यावानेव जीवप्रदेशैर्व्याप्तिस्तावानेव कृत्स्नस्कन्धस्वेन विवक्षितः, न तु जीवप्रदेशाव्याप्तनखाद्यपेक्षयापि ; अत्र तु नखादियुक्तोऽनेकद्रव्यस्कन्धः, इति विशेषः । तर्हि पूर्वोक्ताद् मिश्रस्कन्धादस्य को भेदः १ । उच्यते- तत्राऽश्व-गजादिजीवानां खड्गाद्यजीवानां च पृथग्व्यवस्थितानां समूहकल्पनया मिश्रस्कन्धत्वमुक्तम्, अत्र तु जीवप्रयोगतो विशिष्टैक परिणामपरिणतानां सचेतना - ऽचेतनद्रव्याणामनेकद्रव्यस्कन्धत्वम् इति भेदः । अत एवाऽऽह- 'विसेसोऽयं' इति । कृत्स्नस्कन्धाद् मिश्रस्कन्धाच्चायमनन्तरोक्तोऽस्यानेकद्रव्यस्कन्धस्य विशेषो भेद इति । तदेवमुक्तो द्रव्यस्कन्ध इति ॥ ८९७॥
अथ भावस्कन्धमाह
आगमभावक्खंधो खंधपयत्थोवओगपरिणामो । नोआगमओ भावम्मि नाण - किरिया गुणसमूहो ॥८९८ ॥ आगमतो भावस्कन्धः । कः ?, इत्याह- स्कन्धपदार्थोपयोगपरिणामः । नोआगमतस्तु भावस्कन्धो ज्ञान-क्रिया-गुणसमूहः । ज्ञानमत्रावश्यक श्रुत-स्कन्धावबोधोपयोगलक्षणम्, क्रिया तदुक्तसामाचारीकरणरूपा, गुणास्तु मूलगुणो-तरगुणभेदभिन्नाः, तेषां समूहः समुदाय मीलको ज्ञान क्रिया-गुणसमूह इति ।। ८९८ ॥
१ आगमभावस्कन्धः स्कन्धपदार्थोपयोगपरिणामः । नोआगमतो भावे ज्ञान-क्रिया-गुणसमूहः ॥ ८९८ ॥
५४
For Personal and Private Use Only
बृहत्तिः !
॥४२५||
www.jainelibrary.org