________________
विशेषा० ॥४२४॥
'सचित्तो अचित्तो मीसो य समासओ जहासंखं । दुपयाई दुपएसाइओ य सेणाइदेसाई ॥ ८९६ ॥ ।
व्यतिरिक्तद्रव्यस्कन्धः समासतः संक्षेपेण तावत् सचित्ता-चित्त-मिश्रभेदात् त्रिविधः । स च यथासंख्यं द्विपदादिष्टव्यः, तथाहि-द्विपदा-ऽपद-चतुष्पदरूपः सचित्तस्कन्धः । तत्र द्विपदं मनुष्य-शुक-सारिकादि, अपदं दाडिमा-ऽऽम्र-वीजपूरकादि,चतुष्पदं तु गवादि । द्विपदेशिकादिरनन्ताणुकस्कन्धपर्यवसानोऽचित्तस्कन्धः सेनाया हस्त्य-श्व-रथ-पदाति-खड-कुन्ताद्यात्मकः पाश्चात्य-मध्यमाप्रदेशरूपो मिश्रस्कन्धः । आदिशब्दाद् ग्राम-नगराधेकदेशपरिग्रहः ॥ ८९६ ॥
अथवा व्यतिरिक्तस्कन्धस्य प्रकारान्तरेण त्रैविध्यमाहअहवा कसिणो अकसिणो अणेगदव्वो स एव विण्णेओ। देसाऽवचिओवचिओ अगदव्यो विसेसोऽयं ॥८९७॥
अथवा स एव व्यतिरिक्तस्कन्धोऽन्यथा त्रिविधो विज्ञेयः, तद्यथा- कृत्स्नस्कन्धः, अकृत्स्नस्कन्धः, अनेकद्रव्यस्कन्धश्चेति । यस्मादन्यो बृहत्तरः स्कन्धो नास्ति स कृत्स्नः परिपूर्णः स्कन्धः कृत्स्नस्कन्धः, स च हयस्कन्धः, गजस्कन्धः, नरस्कन्ध इत्यादि । आह- यद्येवम् , प्रकारान्तरमसिद्धम् , सचित्ततुरङ्गमादिस्कन्धस्यैव संज्ञान्तरेणोक्तत्वात् । नैवम् , यतः पाक् सचित्तस्कन्धाधिकारात् तथाऽसंभविनोऽपि बुद्ध्या निकृष्य जीवा एवोक्ताः, इह तु जीव-तदधिष्ठितशरीरावयवलक्षणः समुदायः कृत्स्नस्कन्धत्वेन विवक्षितः, अतोऽभिधेयभेदात् सिद्धं प्रकारान्तरत्वम् । अस्त्वेवम् , केवलं हयादिस्कन्धस्य कृत्स्नत्वं नोपपद्यते, तदपेक्षया गजादिस्कन्धस्य बृहत्तरत्वात् । नैतदेवम् , यतोऽसंख्येयप्रदेशात्मको जीवः , तदधिष्ठिताश्च शरीरपुद्गला इत्येवंभूतः समुदाय एव हयादिस्कन्धत्वेन विवक्षितः, जीवस्य चासंख्येयप्रदेशात्मकतया सर्वत्र तुल्यत्वाद् गजादिस्कन्धस्य बृहत्तरत्वमसिद्धम् । यदि हि जीवप्रदेशपुद्गलसमुदायः सामस्त्येन वर्धेत, तदा स्याद् गजादिस्कन्धस्य बृहत्त्वम् , तच्च नास्ति, समुदायस्य वृद्ध्यभावात् , केवलपुद्गलवृद्धि-हान्यो
हाऽविवक्षितत्वात् , इति सर्वत्र हयादौ कृत्स्नस्कन्धत्वं न विरुध्यते । अन्ये तु पूर्व सचित्तस्कन्धविचारे जीव-तदधिष्ठितशरीरपुद्गलसमुदायः सचित्तस्कन्धः, अत्र तु शरीराद् बुद्ध्या पृथक् कृतो जीव एव केवलः कृत्स्नस्कन्ध इति व्यत्ययं व्याचक्षते । तदत्र व्याख्याने प्रेयमेव नास्ति, हय-गजादि-जीवानां प्रदेशतो हीनाधिक्याभावेन कृत्स्नस्कन्धत्वस्य सर्वत्राविरोधादिति ।
EC|४२४॥ , सचित्तोऽचित्तो मिश्रश्न समासतो यथासंख्यम् । द्विपदादिदिप्रदेशादिकश्च सेनादिदेशादिः ॥ ८५६ ॥ २ अथवा कृत्स्नोऽकृत्स्नोऽनेकदन्यः स एव विज्ञेयः । देशापचितोपचितोऽनेकद्रव्यो विशेषोऽयम् ॥ ८९७ ।।
For Personal and Private Use Only