________________
POSSISIOSS
बृहद्वतिः ।
विशेषा ॥४२॥
स्यात् ।। सुप्रतीतमप्यस्येत्थमागमतो द्रव्यश्रुतत्वं न स्यात् , अनागमत्वात् । तस्माद् द्रव्यत आगम एवाऽयम् , अतो द्रव्यागमसहायो भावागम आगमत एव भावश्रुतम् , न तु नोआगमत इति स्थितम् ॥ ८९२ ॥
अथान्यदपि मतान्तरमुपन्यस्य दूषयति
अन्ने नोआगमओ सामित्ताणासियं सुयं बति । जइ न सुयमणुवओगे नणु सुयरमणासियं नत्थि ॥८९३॥
अन्ये तु केचनाऽप्याचार्याः खामिनमाश्रितं श्रुतोपयोगं भावश्रुतं ब्रुवते, खाम्यनाश्रितं तु तमेव नोआगमतो भावश्रुतं ब्रुवते, एतच्चातिफल्म्वेवेति दर्शयति- 'जईत्यादि' यद्यनुपयुक्तेऽपि वक्तरि श्रुतं नोक्तम् , किन्तु विशिष्टेऽपि तस्मिन् स्वामिनि द्रव्यश्रुतमेव पूर्वमभिहितम् । मूढ ! तर्हि सुतरामेवाऽनाश्रितं भावश्रुतं नास्ति, स्वामिनमन्तरेण पुस्तकादिलिखिते श्रुते उपयोगस्य दूरोत्सारितत्वात् , उपयोगमन्तरेण च भावश्रुतस्य सर्वथाऽसत्त्वात् । 'स्वाम्यनाश्रितं च श्रुतं काप्यस्ति' इति प्रतिपादयितुर्महासाहसिकत्वमिति यत् किश्चिदेतदिति । तदेवमुक्तं नोआगमतोऽपि भावश्रुतम् ।। ८९३ ॥
अथ श्रुतस्यैकार्थिकनामान्याह
सुय-सुत्त-गंथ-सिद्धत-सासणे आण-वयण उवएसो.। पण्णवण आगमो वि य एगट्ठा पज्जया सुत्ते ॥८९४॥ एतेषां च नानामर्थः प्रागतिदेशेनोक्त एवेति । तदेवं विहितः श्रुतस्यापि नामादिन्यासः ॥ ८९४ ॥ अथ स्कन्धस्य तमभिधातुमाह
खंधपएऽणुवउत्तो वत्ताऽऽगमओ स दव्वखंधो उ । नोआगमओ जाणय-भव्वसरीरा-इरित्तोऽयं ॥८९५॥
इहापि नाम-स्थापने सुखमरूपणीयत्वाद् नोक्ते । द्रव्यस्कन्धस्त्वागमतः स्कन्धपदेऽनुपयुक्तो वक्ता । नोआगमतस्तु ज्ञशरीरद्रव्यस्कन्धः, भव्यशरीरद्रव्यस्कन्धः, तदुभयव्यतिरिक्तद्रव्यस्कन्धश्चेत्येवं त्रिविधोऽयमिति ॥ ८९५॥ तत्र व्यतिरिक्तद्रव्यस्कन्धः सचित्तादिभेदात् पुनरपि त्रिविध इति दर्शयति
अन्ये नोआगमतः स्वामित्वानाश्रितं श्रुतं सुवन्ति । यदि न श्रुतमनुपयोगे नन सुतरामनाश्रितं नास्ति ॥ ८५३ ॥ २ श्रुत-सूत्र-मन्ध-सिद्धान्त-शासनानि आज्ञा-वचने उपदेशः । प्रज्ञपनमागमोऽपि चैकार्थाः पर्षयाः सूत्रे ॥ ८९४ ॥ ३ स्कन्धपदेउनुपयुक्तो वक्ताऽऽगमतः स इम्यस्कन्धस्तु । नोआगमतो ज्ञायक-भव्यशरीरा-ऽतिरिक्तोऽयम् ॥ ८९५॥
॥४२३॥
For eso
v
ery