SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥४२२॥ Jain Educations Internat अथवा, देशवचनोऽपि भवत्वत्र नोशब्दः, न कश्चिद् दोष:, इति दर्शयन्नाह - 1 'अविसेसियसंमिस्सोवओगदे त्ति वा सुयं काउं । नोआगमभावसुए नोसद्दो होज देसे वि ॥ ८९० ॥ अविशेषितश्चासौ ज्ञान-दर्शन- चारित्राणां परिपूर्णघटादिरिवाऽखण्डः संमिश्रोपयोगश्चाविशेषित संमिश्रोपयोगस्तस्य घटादेग्रीवादिवि श्रुतं देश एकदेश इति कृत्वा नोआगमतो भावश्रुते विचार्ये नोशब्दो देशेऽपि युज्यते । इदमुक्तं भवति - यथा सामान्येन परिपूर्णघटादेरिहाऽखण्डस्यैकदेशो ग्रीवादिनोंघट उच्यते, एवमविशेषितभेदस्य ज्ञान-क्रियापरिणामरूपस्याऽखण्डस्य वस्तुनः श्रुतमेकदेश इति कृत्वा ज्ञान-क्रियापरिणामो नोआगमतो भावश्रुतमिति स्थितम् ।। ८९० ।। अथ मतान्तरमुपदर्श्य परिहरन्नाह - 'नोआगमओ केई सहसहायमुवओगमिच्छति । नणु सुतरमागमत्तं हि दव्व-भावागमे जुत्तं ॥ ८९१ ॥ केचिदाचार्याः शब्दसहायं श्रुतोपयोगं नोआगमतो भावश्रुतमिच्छन्ति । अयमभिप्रायः - श्रुतोपयोगपूर्वकं ब्रुवाणस्य यः श्रुतोपयोगसहितः शब्दः स नोआगमतो भावश्रुतम् । तत्र किलोपयोग- शब्दसमुदाये उपयोगलक्षणस्याऽऽगमस्यैकदेशत्वात्, शब्दनिरपेक्षं तूपयोगमात्रमागमतो भावश्रुतमिति । एतच्चायुक्तमिति दर्शयति- 'नण्वित्यादि' नन्वत्र हि स्फुटं श्रुतोपयोगो भावागमः, शब्दस्तु द्रव्यागमः, इति सुतरामागमत्वमेव युक्तम् ; आगमत एव श्रुतं युज्यते, न तु नोआगमत इत्यर्थः । यदि हि केवलोऽपि श्रुतोपयोग आगम उच्यते, तर्हि द्वितीये शब्दलक्षणे द्रव्यागमे मिलिते सुतरामयमागम एव युज्यते, न तु नोआगमः आगमा-नागमसमुदाय एवं तस्य युज्यमानत्वादिति भावः ।। ८९१ ।। पराभिप्रायमेवाशङ्कय निराचिकीर्षुराह अह नागमो त्ति सदो नोआगमया य तदहियत्तणओ । आगमओ दव्वसुयं किह सदो नागमो जइ सो ? ॥ ८९२ ॥ अथ परो मन्येत - शब्द आगमो न भवति, तत उपयोगस्य तदधिकत्वादनागमरूपशब्दाधिकत्वाद् नोआगमता, आगमा-नागमसमुदाये आगमस्यैकदेशत्वाद् नोआगमत्वमित्यभिप्रायः । अत्र सूरिराह- हन्त ! यद्यसौ शब्द आगमो न भवति तर्ह्यगमतो द्रव्यश्रुतं १ अविशेषितसंमिश्रोपयोगदेश इति वा श्रुतं कृत्वा । नोआगमभावश्रुते नोशब्दो भवेद् देशेऽपि ॥ ८९० ॥ २ क.ग. 'देसो ति' । ३ नोआगमतः केचित् शब्दसहायमुपयोगमिच्छन्ति । ननु सुतरामागमत्वं हि द्रव्य भावागमयोर्युक्तम् ॥ ८९१ ॥ ४ घ. छ. 'व यु' । ५ अथ नागम इति शब्दो नोआगमता च तदधिकत्वतः । आगमतो द्रव्यश्रुतं कथं शब्दो नागमो यदि सः १ ॥ ८९२ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥४२२॥ www.jainelibrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy