SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ odara विशेषा ॥४२॥ अथ प्रेरकाभिप्रायमाशङ्कमान आह आह नणु मीसभावे नाभिहिओ, अभिहिओ य नोसहो । देसे तदन्नभावे दव्वे किरियाए भावे य॥८८८॥बृहदा आह-प्रतिषेधवाचकत्वाद् नोशब्दो मिश्रभावे न क्वचिदाभिहितः । किं तर्हि , देशादिषु पञ्चस्वर्थेष्वभिहितः। तत्र देशे नोघटो घटैकदेश उच्यते, यतो घटैकदेशस्तावदघटो न वक्तव्यः, नापि घटः, किं तर्हि १, नोघटः । तथाहि- घंटैकदेशस्य ग्रीवादेरघटत्वे तदन्यदेशानामपि तद्वदेवाऽघटत्वात् सर्वघटाभावप्रसङ्गः, एवं पट-शकटादावप्यभावप्रसङ्गेन सर्वशून्यतापत्तिः । नापि घटैकदेशो घटः, एवं हि प्रत्यवयवं घटप्राप्त्यैकस्मिन्नपि घटे घटबाहुल्यापत्तिः, तथा च सत्येकघटविषयप्रवृत्ति-निवृत्त्यादिव्यवहारोच्छेदप्रसङ्गः। तस्मात् पारिशेष्याद् घटैकदेशो नोघट एवोच्यते, पर्यायशब्दत्वादनयोः । तदन्यभावेऽपि नोशब्दो दृश्यते, यथा 'नोघटः' इत्युक्ते तदन्यः पटादिः प्रतीयते, यथा 'नो ब्राह्मणः' इत्यभिहिते क्षत्रियादिगम्यते । द्रव्ये तु नोशब्दो घटैकदेशवचनादि:- नो घटः, नो पटः, नो स्तम्भ इत्यादिघटायेकदेशवाचक इत्यर्थः । ननु देशवाचकादस्य को भेदः?, इति चेत् । उच्यते- तत्र घटादिसंबद्ध एव तदेकदेशो नोघटादिरुक्तः, अत्र तु स एव घटायेकदेशो ग्रीवादिः पृथग्भूतो रथ्यादिपतितः स्वतन्त्र एवं गृह्यते । स च घटादेः पार्थक्येन वर्तमानत्वात् पृथगेव स्वतन्त्रं द्रव्यम्, इति द्रव्ये नोशब्दः । क्रियानिषेधवचनो नोशब्दः- 'नो पचति, नो पक्तव्यमित्यादि । भावनिषेधे तु नोशब्दो 'नो शय्यते, नो स्थीयते' इत्यादि । भाव-क्रिययोश्च विशेषः सिद्ध-साध्यतादिरूपः कोऽपि शब्दशास्त्रादिगतो बोद्धव्यः । इत्येवं विवक्षावशाद् देशादिष्वर्थेषु दृष्टो नोशब्दः, न तु मिश्रभाव इति ॥ ८८८ ॥ अत्रोत्तरमाह सच्चमयं देसाईसु तवत्थवसेण सहविणिओगो । अमियत्था य निवाया जुज्जइ तो मीसभावे वि ॥८८९॥ सत्यम् , देशप्रतिषेधादिवचनोऽयं नोशब्दः, तथाप्यर्थवशाच्छब्दानां विनियोगः- यो यत्रार्थो घटते, तस्मिन्नर्थे तत्र ते प्रयुज्यन्त इत्यर्थः । आह-नन्वेकस्यापि शब्दस्य किमनेकार्था विद्यन्ते, येनैवमुच्यते ?, इत्याशङ्कयाह-द्योतकत्वेनापरिमितार्थाश्च निपाता इति मिश्रवचनोऽपि प्रयुज्यते नोशब्दः, न किञ्चित भूयत इति ॥ ८८९ ॥ ३ आह नमु मिश्रभावे नाभिहितः, अभिहितश्च नोशब्दः । देशे तदन्यभावे द्रव्ये क्रियायां भावे च ॥ ८८८ ॥२ क.ग. 'त्वाभा' । ३ क.ग. 'टक' । ४ क.ख.ग. 'तारू'। ५ सत्यमय देशादिषु तथाऽप्यर्थवशेन शब्दविनियोगः । अमिताश्च निपाता युज्यते ततो मिनभावेऽपि ॥ ८८९ ।। ॥५२॥ dunia For Personal and Private Use Only
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy