SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ बृहद्वत्तिः । विशेषा. ॥४१८॥ 'बोआगमओ भावे लोइय लोउत्तरं पुराभिहियं । सम्मत्तपस्ग्गिहियं सम्मसुयं मिच्छमियरं ति ॥८७९॥ नोआगमतो भावश्रुतं द्विविधम्- लौकिकं, लोकोत्तरं च । तत्र लौकिकं भारत-रामायणादि । इदं चेहैव पूर्व श्रुतज्ञानविचारे प्रोक्तम् । लोकोत्तरं त्वङ्गप्रविष्टादि, इदमपि पूर्व तत्रैवोक्तम् । एतच्च सर्व सम्यक्त्वपरिगृहीतं सम्यक्श्रुतं, मिथ्यात्वपरिगृहीतं तु मिथ्याश्रुतमिति ॥ ८७९॥ अत्र प्रेरकः प्राह आगमओ भावसुयं जुत्तं नोआगमे कहं होइ । जइ नागमो न सुत्तं, अह सुत्तमणागमो किह णु?॥८८०॥ यदागमतो भावश्रुतमुक्तम् तद् युक्तम्- घटत एव । नोआगमतस्तु भावश्रुतं कथं भवति ?-न घटत एवैतदित्यर्थः । तथाहिनोशब्दस्तावद् निषेधवचनः, ततश्च यदि न-नैवाऽऽगमः, तर्हि न श्रुतम् , तस्याऽऽगमरूपत्वात् । अथ श्रुतम् , तानागमः कथम् ।। तस्माद् नोआगमतो भावभुतमिति 'माता बन्ध्या' इत्यादिवद् विरुद्धमेवेति ॥ ८८०॥ प्रेरक एवाऽऽशङ्कयाह 'उवओगो जम्मत्ते तं तं जइ वागमोऽवसेसं तु । नोआगमो त्ति एवं किमणुवउत्तम्मि दब्बसुयं? ॥ ८८१॥ यदिवा, एवं सिद्धान्तबादी ब्रूयात्- यावन्मात्रे यत्र यत्र श्रुताध्येतरि तदुपयोगस्तत्तदागमतो भावश्रुतम् , यत् त्वबशेषमनुपयुक्तस्याऽध्येतुः श्रुतं तद् नोआगमतो भावश्रुतमिति सर्व सुस्थमिति । हन्त ! तर्हि 'आगमओ दव्वसुयं वत्ता सुत्तोवओगनिरवेक्खो' इत्यनेनाऽनुपयुक्ते वक्तरि यत् पूर्व द्रव्यश्रुतमुक्तं तत् किं स्यात् , तद्विषयस्येदानी नोआगमतो भावश्रुतत्वेन त्वया प्रतिपाद्यमानत्वात् ?निर्विषयमेव तत् स्यादिति भावः ॥ ८८१॥ पर एवाचार्यमतमाशङ्कय परिहरनाहअविसुद्धनयमएण व जइ लडिसुयमणुवउत्ते वि । भावसुयं चिय पढओ किमणुवउत्तस्स दव्वसुयं ?॥८८२॥ १ नोभागमतो भावे लौकिक लोकोत्तरं पुराभिहितम् । सम्यक्त्वपरिगृहीतं सम्यक्षुतं मिथ्येतरदिति ॥ ८७९ ॥ २ आगमतो भावभुतं युक्त नोआगमे कथं भवति । यदि नागमो न सूत्रं, भय सूत्रमनागमः कथं नु ? ॥ ८८० ॥ ३ उपयोगो यन्मात्रे तत्तद् यदि वाऽऽगमोऽवशेषं तु । नोआगम इत्येवं किमनुषयुक्त द्रव्यश्रुतम् ॥ ८८1 ॥ ४ गाथा ८७७ । ५ अविशुबनयमतेन वा यदि लब्धिभुतमनुफ्युक्तेऽपि । भावश्रुतमेव पठतः किमनुपयुक्तस्य द्रव्यश्रुतम् । ॥ ८८२ ॥ PRESबार ॥४१८॥ Ford
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy