________________
इह नाम-स्थापने सुगमत्वाद् नोक्ते । द्रव्यश्रुतं वागमतः, नोआगमतश्च । नत्राऽऽगमतो द्रव्यश्रुतं वक्ता तदुपयोगनिरपेक्ष.विशेषा अनुपयुक्त इत्यर्थः । नोआगमतस्तु त्रिविधम्- बशरीरद्रव्यश्रुतम् , भव्यशरीरद्रव्यश्रुतम् , तद्व्यतिरिक्तं द्रव्यश्रुतं चेति । तत्राद्यभेदद्वयमा
वश्यकवदेव बोद्धव्यम् ।। ८७७ ॥ ॥४१७॥
तयतिरिक्तं त्विदं किम् ?, इत्याह
पत्ताइगयं सुत्तं सुत्तं च जमंडजाइ पंचविहं । आगमओ भावसुयं सुउवउत्तो तओऽणण्णो ॥ ८७८ ॥
इह श्रुतं सूत्रं च द्वे अपि किलैकार्थे । तत्र तल-ताल्यादिप्रभवानि पत्राणि प्रतीतानि, तेषु गतं लिखितं सूत्रं पत्रादिगतम् ; आदिशब्दात् पत्रसंघातनिष्पन्नाः पुस्तकोः, वस्त्रादयश्च गृह्यन्तेः तेष्वपि लिखितं सूत्रं ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्यश्रुतमुच्यते । अथवा, अण्डजाद्यपि यदागमे पञ्चविध मूत्रमुक्तम् । तद्यथा- “अंडए, बोंडए, कीडए, वालए, वागए" * । एतदपि मूत्राभिधानसाम्याद् व्यतिरिक्तं द्रव्यश्रुतमुच्यते । तत्राण्डाच्चतुरिन्द्रियकीटविशेषनिवर्तितकोशकाररूपाजातमण्डज लोकमतीतं चटकसूत्रमित्यर्थः । वोण्डं वमनीफलं तस्माजातं वोण्डजं कर्पासमूत्रमित्यर्थः । कीटजं तु पश्चविधम् , तद्यथा-"पट्टे, मलए, अंसुए, चीणंसुए, किमिराए"* एते पञ्चापि पट्टमूत्रविशेषाः । वालजमपि पञ्चविधम् , तद्यथा- "उण्णिए, उहिए, मिगलोमिए, कोतवे, किट्टिसे' * । तत्र मूपिकलोमनिष्पन्नं कौतवम् , ऊर्णााद्वरितकिट्टिसनिष्पन्नं सूत्रं किट्टिसम् । अथवा, ऊर्णादीनां द्विकादिसंयोगनिष्पन्न किट्टिसम्; यदिवा, उक्तशेपाऽश्वादिजीवलोमनिष्पन्न किट्टिसम् । शेष प्रतीतम् । सणा-ऽतस्यादिप्रभवं वल्कजम् । तदेतत् सर्वमपि व्यतिरिक्तं द्रव्यश्रुतम् ।
भावश्रुतमपि द्विधा- आगमतः, नोआगमतश्च । तत्र श्रुतोपयुक्तस्तदध्येताऽऽगमतो भावश्रुतम् । ननूपयोग एव भावश्रुतं युज्यते, Ro तत्कथमिह तद्वान् गृह्यते , इत्याह 'तओऽणण्णो त्ति ततः श्रुतोपयोगादनन्य इति कृत्वोपचारतः स एव भावश्रुतमुच्यत इति ॥८७८॥
नोआगमतो भावश्रुतमाह
, पत्रादिगतं सूत्र सूत्रं च यदण्डजादि पञ्चविधम् । आगमतो भावधुतं श्रुतोपयुक्तस्ततोऽनभ्यः ॥ ८७८ ॥ २ पुस्तकशब्दस्य पोखं न दोषाय, "पुस्तक-मुस्तक-" इति लिङ्गानुशासने तस्य पुनपुंसकत्वेनाऽनुशासनात् । ३ अण्डजम् , बोण्डजम् , कीटजम् , वालजम् , बल्कजम् । ४ पट्टम् , मलयम् , अंचकम् , चीनांचकम् , कृमिरागम् । ५ भौणिकम् , औष्ट्रिकम् , मृगलोमिकम् , कौतवम् , किट्टिसम् । अनुयोगद्वारसूत्रस्थोऽयं पाठः ।
See
॥४१७||
Bosसलमान
५३
For Post
ery