________________
विशेषा०
॥४१६॥
Jain Educationa Internatio
वासकम् । अथवा, यथा वस्त्रं वास-धूपादयः, तथा गुणैरा समन्तादात्मानं वासयति भावयति रञ्जयतीत्यावासकम् । यदि वा 'वस आच्छादने' गुणैरा समन्तादात्मानं च्छादयति- 'छद खट्ट संवरणे' इति दोषेभ्यः संवृणोतीत्यावास कमिति । तदेवं 'आवस्तयं' इत्याद्यं पर्यायनाम व्याख्यातम् ॥ ८७४ ।। ८७५ ।।
शेषाण्यतिदिशन्नाह -
एवं चि सेसाई विउसा सुय- लक्खणाणुसारेण । कमसो वत्तव्वाइं तहा सुय-क्खंधनामाई ॥ ८७६ ॥
एवमेव शेषाण्यवध्यश्यकरणीयादिनामानि सिद्धान्त-लक्षणानुसारेण क्रमशो विदुषा वक्तव्यानि तद्यथा- मुमुक्षुभिरवश्यं क्रियत इत्यवश्यकरणीयमिदमुच्यते; तथा, अर्थतो ध्रुवत्वात् शाश्वतत्वाद् ध्रुवम् । निगृह्यन्त इन्द्रिय-कषायादयो भावशत्रवोऽनेनेति निग्रहः । अन्ये तु प्रवाहतोऽनादिकालीनत्वाद् ध्रुवं कर्म, तद् निगृह्यतेऽनेनेति 'ध्रुवनिग्रहः' इत्येकमेवेदं पर्यायनाम व्याचक्षते । कर्ममलिनस्याssत्मनो विशुद्धिहेतुत्वाद् विशुद्धिः । सामायिकादिषडध्यनात्मकत्वादध्ययनपट्कम् । 'हजी वर्जने' वृज्यन्ते दूरतः परिहियन्ते रागादयो दोषा अनेनेति वर्गः । अन्ये तु पडध्ययनकलापात्मकत्वात् 'अध्ययनपटूवर्गः' इतीदमप्येकमेव पर्याय नाम ब्रुवते । अभिप्रेतार्थसिद्धेः सम्यगुपायत्वाद् न्यायः; अथवा, जीव-कर्मसंबन्धापनयनाद् न्यायः । अयमभिप्रायः- यथा कारणिकैर्दृष्टो न्यायो द्वयोरथिं प्रत्यर्थिनोभूमिद्रव्यादिसंवन्धं चिरकालीनमप्यपनयतीति, एवं जीव-कर्मणोरनादिकालीनमप्याश्रयाश्रयिभावसंबन्धमपनयतीत्यावश्यकमपि न्याय उच्यते । मोक्षाऽऽराधनाहेतुत्वादाराधना । मोक्षपुरमापकत्वाद् मार्ग इव मार्ग इति ।
अतिदेशप्रस्तावाद् वक्ष्यमाणान्यप्यैकार्थिकनामान्यतिदिशन्नाह - ' तहा सुयक्खंधनामाई ति' तथा तेनैवोक्तप्रकारेण श्रुत-सू-ग्रन्थ- सिद्धान्त-प्रवचन-ऽऽज्ञोपदेशा-गमादीनि श्रुतैकार्थिकनामानि गण-काय निकाय-स्कन्ध-वर्ग-राश्यादीनि च स्कन्धैकार्थिकनामानि श्रुतानुसारेण, लक्षणानुसारेण चार्थतो विदुषा वक्तव्यानीत्यर्थ इति । तदेवं विहितो नामादिन्यास आवश्यकपदस्य ।। ८७६ ॥ अथ श्रुतपदस्य तं चिकीर्षुरिदमाह
"आगमओ दव्वसुयं वत्ता सुत्तोपओगनिरवेक्खो । नोआगमओ जाणय- भव्वसरीरा - ऽइरित्तमिदं ॥ ८७७॥
१ एवमेव शेषाणि विदुषा श्रुत-लक्षणानुसारेण । क्रमशो वक्तव्यानि तथा श्रुत-स्कन्धनामानि ॥ ८७६ ॥
२ आगमतो द्रव्यश्रुतं वक्ता श्रुतोपयोगनिरपेक्षः । नोआगमतो ज्ञायक भव्यशरीराऽतिरिक्तमिदम् ॥ ८७७ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥४१६॥
: www.tainellibrary.bro